This page has been fully proofread once and needs a second look.

x.
 
अवन्तिसुन्दरीकथासारे
 

 
या भृत्यविगलद्भोगैरसंख्यत्र<fix>वसु</fix>भिर्जनैः ।

भोगवत्यमरावत्यौ न्यक्कुर्वाणेव गर्विता ॥ १२ ॥

तस्यां जज्ञे बुधवात<fix>व्रात</fix>ध्वस्ता खिलविपल्लवः ।

पल्लवेषु महीपालः सिंहविष्णुरिति श्रुतः ॥ १३ ॥

गरिम्णा स्थावरान् सर्वानोजसा जङ्गमानपि ।

यो विजिग्ये भुज<fix>श्लाषी घी</fix> <fix>भूभर्तृतॄ</fix>नुभयानपि ॥ १४ ॥

अदृष्टपूर्वो गन्धर्वस्तं सभासदमेकदा ।

उदञ्जलिर्महीपालमुपावीणयदार्यया ॥ १५ ॥

"
दनुजपतिहृदयभूधर-

विभेदविज्ञातशक्तिनखक्<fix>कुलिशम्
 
</fix> ।
जगदुदयहेतु विष्णो
 
रख
-
रव
तु वपुर्नारसिंहं वः " ॥ १६ ॥

श्रुत्वैनामत्युदरार्थीथां कुतूहलबलात्कृतः ।

अब्रवीद्भद्र ! केनेयं निर्मिता वर्णपद्धतिः ॥ १७ ॥

इत्यूचिवांसं प्रत्यूचे गन्धर्वस्तं रे[^1] श्वरम् ।

देव ! स्वनुगृहीतोऽस्मि श्रूयतामवधानतः ॥ १८ ॥

अस्त्यानन्दपुरं नाम प्रदेशे[^2] पश्चिमोत्तरे ।

आर्यदेशशिखारत्नं तत्रा सन् बहवो द्विजाः ॥ १९ ॥

<fix>
ततोऽमिभि</fix>निःसृता काचित् कौशिकब्रह्मसन्ततिः ।

ब्रह्मलोकादिवायान्ती पुण्यतीर्था सरस्वती ॥ २० ॥

नासिक्यभूमावौत्सुक्यान्मूलदेवनिवेशिताम् ।

प्राप्याचलपुरं नाम पुरीमधिवसत्यसौ ॥ २१ ॥

तस्यां नारायणस्वामिनाम्नो नारायणोदरात् ।

दामोदर इति श्रीमानादिदेव इवाभवत् ॥ २२ ॥

स मेधावी कविर्विद्वान् भारविं'[^3] प्रभवं गिराम् ।

अनुरुध्याकरोन्मैत्रीरीं नरेन्द्रे विष्णुवर्धने ॥ २३ ॥

क्षुधाविष्टेन तद्विद्धमामिषं मृगयान्तरे ।

अनिष्टशिष्टं हा ! कष्टं तेनाभोज्यमभुज्यत ॥ २४ ॥
 

 
[^
1]. ने. ग.
 

 
[^
2]. शः क. ख.
 

 
[^
3].
 
वि
विः. ग.