2023-02-26 04:07:48 by ambuda-bot
This page has not been fully proofread.
x.
अवन्तिसुन्दरीकथासारे
या भृत्यविगलद्भोगैरसंख्यत्रसुभिर्जनैः ।
भोगवत्यमरावत्यौ न्यक्कुर्वाणेव गर्विता ॥ १२ ॥
तस्यां जज्ञे बुधवातध्वस्ता खिलविपल्लवः ।
पल्लवेषु महीपालः सिंहविष्णुरिति श्रुतः ॥ १३ ॥
गरिम्णा स्थावरान् सर्वानोजसा जङ्गमानपि ।
यो विजिग्ये भुजलाषी भूभर्तृनुभयानपि ॥ १४ ॥
अदृष्टपूर्वो गन्धर्वस्तं सभासदमेकदा ।
उदञ्जलिर्महीपालमुपावीणयदार्यया ॥ १५ ॥
दनुजपतिहृदयभूधर-
विभेदविज्ञातशक्तिनखक्कुलिशम् ।
जगदुदयहेतु विष्णो
रखतु वपुर्नारसिंहं वः " ॥ १६ ॥
श्रुत्वैनामत्युदरार्थी कुतूहलबलात्कृतः ।
अब्रवीद्भद्र ! केनेयं निर्मिता वर्णपद्धतिः ॥ १७ ॥
इत्यूचिवांसं प्रत्यूचे गन्धर्वस्तं घरे श्वरम् ।
देव ! स्वनुगृहीतोऽस्मि श्रूयतामवधानतः ॥ १८ ॥
अस्त्यानन्दपुरं नाम प्रदेशे पश्चिमोत्तरे ।
आर्यदेशशिखारत्नं तत्रा सन् बहवो द्विजाः ॥ १९ ॥
ततोऽमिनिःसृता काचित् कौशिकब्रह्मसन्ततिः ।
ब्रह्मलोकादिवायान्ती पुण्यतीर्था सरस्वती ॥ २० ॥
नासिक्यभूमावौत्सुक्यान्मूलदेवनिवेशिताम् ।
प्राप्याचलपुरं नाम पुरीमधिवसत्यसौ ॥ २१ ॥
तस्यां नारायणस्वामिनाम्नो नारायणोदरात् ।
दामोदर इति श्रीमानादिदेव इवाभवत् ॥ २२ ॥
स मेधावी कविर्विद्वान् भारविं' प्रभवं गिराम् ।
अनुरुध्याकरोन्मैत्री नरेन्द्रे विष्णुवर्धने ॥ २३ ॥
क्षुधाविष्टेन तद्विद्धमामिषं मृगयान्तरे ।
अनिष्टशिष्टं हा ! कष्टं तेनाभोज्यमभुज्यत ॥ २४ ॥
1. ने. ग.
2. शः क. ख.
3.
वि. ग.