This page has been fully proofread once and needs a second look.

॥ श्रीः ॥
 

 
॥ अवन्तिसुन्दरीकथासारः ॥
 

 
प्रथमः परिच्छेदः
 

 
वन्दे मन्दाकिनीवारिमकरन्दपरिप्लुतम् ।

सानन्दसुरनेत्रालि मुकुन्दपदपङ्कजम् ॥ १ ॥

नमः कन्दर्प दर्पघ्नज्वलज्ज्वलनचक्षुषे ।

लसद्भिरिसुतासक्तवपुषे चन्द्रमौलये ॥ २ ॥

मन्मुखे सुखविन्यस्तसविलासपदक्रमा

हंसीव विहरन्ती स्तात् सरसीव सरस्वती ॥ ३॥

जयत्यखिल सल्लाँप रत्नराशिसमुद्भवः ।

भारतामृतसंभूतिः पाराशर्यपयो<fix>निविःधिः</fix> ॥ ४ ॥

सद्गणोदय संक्षुण्णो दोषागमविजृम्भितः ।

अन्धकार इवाहन्ति कष्टं दृष्टिफलं खलः ॥ ५ ॥

विशुद्धिमत्पक्षपाताः श्रितनिर्मलमानसाः ।

हंसा इव मनः सन्तो हरन्ति मधुरैः स्वनैः ॥ ६ ॥

सन्तः सर्वहितार्थानां (य?) खलास्त्वखिलवैरिणः ।

तदुभावनुसृत्यालं वृथा विरमतु श्रमः ॥ ७ ॥

मधुरोक्तिमणिश्रेणीगहनार्थमहा<fix>ह्रदः
</fix> ।
केनायमतिलध्<fix>ङ्घ्येत </fix>गम्भीरः काव्यसागरः ॥ ८ ॥

अवगच्छन्नयं शब्दान् कथञ्चिदपि पञ्चषान् ।

कवितामुत्सहे वोढुमहो मोहपरम्परा ॥ ९ ॥

सत्कथाकथनप्रीत्या तथापि कथयाम्यहम् ।

कान्तामवन्तिसुन्दर्याः कथामनतिविस्तराम् ॥ १० ॥

अस्ति प्रासादविस्तारग्रस्तव्योमान्तरा पुरी ।

काञ्चीपुराख्या कल्याणी ककुमः कुम्मजन्मनः ॥ ११ ॥