This page has not been fully proofread.

॥ श्रीः ॥
 
॥ अवन्तिसुन्दरीकथासारः ॥
 
प्रथमः परिच्छेदः
 
वन्दे मन्दाकिनीवारिमकरन्दपरिप्लुतम् ।
सानन्दसुरनेत्रालि मुकुन्दपदपङ्कजम् ॥ १ ॥
नमः कन्दर्प दर्पघ्नज्वलज्ज्वलनचक्षुषे ।
लसद्भिरिसुतासक्तवपुषे चन्द्रमौलये ॥ २ ॥
मन्मुखे सुखविन्यस्तसविलासपदक्रमा
हंसीव विहरन्ती स्तात् सरसीव सरस्वती ॥ ३॥
जयत्यखिल सल्लाँप रत्नराशिसमुद्भवः ।
भारतामृतसंभूतिः पाराशर्यपयोनिविः ॥ ४ ॥
सद्गणोदय संक्षुण्णो दोषागमविजृम्भितः ।
अन्धकार इवाहन्ति कष्टं दृष्टिफलं खलः ॥ ५ ॥
विशुद्धिमत्पक्षपाताः श्रितनिर्मलमानसाः ।
हंसा इव मनः सन्तो हरन्ति मधुरैः स्वनैः ॥ ६ ॥
सन्तः सर्वहितार्थानां (य?) खलास्त्वखिलवैरिणः ।
तदुभावनुसृत्यालं वृथा विरमतु श्रमः ॥ ७ ॥
मधुरोक्तिमणिश्रेणीगहनार्थमहाहदः ।
केनायमतिलध्येत गम्भीरः काव्यसागरः ॥ ८ ॥
अवगच्छन्नयं शब्दान् कथञ्चिदपि पञ्चषान् ।
कवितामुत्सहे वोढुमहो मोहपरम्परा ॥ ९ ॥
सत्कथाकथनप्रीत्या तथापि कथयाम्यहम् ।
कान्तामवन्तिसुन्दर्याः कथामनतिविस्तराम् ॥ १० ॥
अस्ति प्रासादविस्तारग्रस्तव्योमान्तरा पुरी ।
काञ्चीपुराख्या कल्याणी ककुमः कुम्मजन्मनः ॥ ११ ॥