This page has not been fully proofread.

अष्ट्रमः परिच्छेदः
 
सम्भूय सुहृदान्येव प्रत्यापन्नात्मतेजसः ।
मरीचेरवबुद्धयैवं भवत्प्राप्तिमवास्थिषि ॥ १०३ ॥
 
कान्तकस्यापचारं तन्निधनच निवेदयन् ।
कारकाधिकृतश्चके राजा नागरिकः स मे । १०४ ॥
 
तन्मुखेन तथा गत्या गत्वान्तः समगंसि च ।
मृगालिकोक्तमद्वार्तारक्तया राजकन्यया ॥ १०५ ॥
 
चण्डवर्मबलाक्रान्ते तस्मिन्नेवान्तरे पुरे ।
 
अमर्षणे रणे क्षिप्रं गृहीते चण्ड ( सिंह ?) वर्मणि ॥ १०६ ॥
 
बलादम्बालिकां बालामपहृत्य प्रियां मम ।
प्रवृत्ते परिणेतुञ्च प्रचण्डे चण्डवर्मणि ॥ १०७ ॥
अहं तस्योत्सवोद्देशं प्रविश्य निभृतायुधः
अजिग्रहं करं मृत्योस्तत्करग्रहणोन्मुखम् ॥ १०८ ॥
 
वेपमानां प्रियामन्तःपुरं प्रापथ्य निष्पतन् ।
देवदर्शननामैतद् भागधेयमयासिषम् ॥ १०९ ॥
इति प्रीतः प्रशस्यैतन्निशम्य नृपनन्दनः ।
उपहारमथापृच्छत् स बद्धाञ्जलिरभ्यधात् ॥ ११० ॥
 
एषोऽप्यहं विदेहेषु कदाचित्तापसीगृहम् ।
विश्रमायाविशं सा मद्दर्शनादश्रुमुख्यभूत् ॥ १११ ॥
 
अनुयुक्ता मया दीर्घ निश्वस्योवाच तापसी ।
महारवर्मा नन्वत्र श्रूयते मिथिलेश्वरः ॥ ११२ ॥
 
स पुरा मगधान् गत्वा विक्रम्य तुमुले मृधे ।
प्राणितः स्वपुरं गच्छन्निरुद्धः पथि लुब्धः ॥ ११३ ॥
 
तत्सुतेन करस्थेन भ्रष्टाहं सार्थविद्रवे ।
व्याघ्रक्षता क्षणं जहे बालस्त (स्कर) दारकैः ॥ १
 
अरक्ष्ये वृष्णिपालेन स्वस्थायां मयि मत्सुता ।
 
तत्रागत्याब्रवीत सर्व शवरग्रहणं शिशोः ११५ ॥
 
11
 
९३