This page has not been fully proofread.

९२
 
अवन्तिसुन्दरीकथासारः
 
मुक्तबन्धः सुरुङ्गामध्यखनं बन्धनोदरात् ।
निह्नुत्य निहनिष्यन्तं निहत्यैनं सुरुङ्गया ॥ ९१ ॥
 
गत्वा कन्यापुरं तस्मिन् मोषाय कृतनिश्चयः ।
प्रज्ज्वलन्मणिदीपं तं प्रविश्य नृपकन्यकाम् ॥ ९२ ॥
 
विस्रब्धसुप्तामद्राक्षं निद्रानिभृतविभ्रमाम् ।
शशिमण्डल संकाशपर्यङ्कतलशायिनीम् ॥ ९३ ॥
 
शरदम्बुघरोत्सङ्गशय्यामिव शतहदाम् ।
तस्करस्यापि मे चेतस्तयैव मुषितं तदा ॥ ९४ ॥
 
अशरीरशराविद्धो नावबुद्धोऽस्मि किञ्चन ।
अनाश्लिष्यन्त्र शक्नोमि स्थातुमाश्लिष्टया ध्रुवम् ॥ ९५ ।
 
कन्दिष्यते तदत्रैवं कर्तव्यमिति चिन्तयन् ।
 
आलिरव्य तदवस्थां तामार्यञ्च फलके कचित् । ९६ ॥
 
अलिखं मत्प्रतिच्छन्दं तत्पदद्वन्द्वगोचरम् ।
 
त्वामयमाबद्धाञ्जलि
 
दासजनस्तमिमर्थमर्थयते ।
 
स्वपिहि मया सह सुरत-
॥ ९७ ॥
 
व्यतिकरखिन्नैवमेव त्वम् ॥ ९८ ॥
 
इत्थं निष्क्रम्य कश्चिन्मे बद्धो नागरिकः सुहृत् ।
एवं इतः कान्तकस्ते लभ्यं निर्मिध तत्पदम् ॥ ९९ ॥
 
इत्थं तमभिघायाथ प्रस्थितः समृगालिकः ।
मार्गे नागरिकापाते वायुग्रस्त इवाभवम् ॥ १०० ॥
 
ययाचे सा तु मन्माता भूत्वा मद्ग्रहणाय तान् ।
किमप्यबद्धमुक्त्वाहं धावितः सान्वधावत ॥ १०१ ॥
 
उन्मत्तमेव मत्वा मां विनिवृत्तेषु रक्षिषु ।
गत्वास्मगणिकावासं तयैवागमयं निशाम् ॥ १०२ ॥
 
H