This page has not been fully proofread.

अष्टमः परिच्छेदः
 
धनमित्राय तां नीत्वा तस्करोऽहमिति ब्रुवन् ।
सम्भाव्येत (वितः ?) परं तेन प्रहर्षद्रवदात्मना ॥ ५२ ॥
तथा स ( ह पुरीमेनां ) जिहासन्तं निवार्य तम् ।
आसितव्यमिदैव स्यात् प्रज्ञाशैथिल्य मन्यथा ॥ ५३ ॥
 
तन्नयाव स्वमावासमिमामित्यमुना सह ।
नीत्वा पितुर्गृहं सर्व मुषित्वा निरयासिपम् ॥ ५४ ॥
 
मार्गे मत्तगजं दृष्ट्वा तेनार्थपतिमन्दिरम् ।
 
लुप्त्वा मुक्त्वा च तं भूयः प्राप्यालयमशेवहि ॥ ५५ ॥
 
श्रुत्वा मासावधिं प्रातर्विवाहं तमुपहरे ।
धनमित्रमथात्रोचमाचक्ष्यैवं नरेश्वरम् ॥ ५६ ॥
 
देव ! मह्यमनुज्ञाय वर्धितां मयि दुर्विधे ।
कुबेरदत्तः स्वां कन्यामन्यस्मै दित्सतीत्यहम् ॥ ५७ ॥
असून् जिहासुरादिष्टः केनापि जटिना वने ।
नैर्धन्यमूलं मत्वैतद्दत्त्वा मे चर्मभस्त्रिकाम् ॥ ५८ ॥
मन्त्रसिद्धोऽहमस्माभिः साधितेयमिहानया ।
कृतकृत्यश्चिरं भूत्वा विशामि जरसा रसाम् ॥ ५९ ॥
अन्यायात्तं धनं कृत्वा तस्यैवान्यच्च विप्रसात् ।
आराधिता सती प्रातः स्वर्णपूर्णा भवयसौ ॥ ६० ॥
वणिग्भ्यो गणिकाभ्यो वा दुग्धे चेयं मदन्यतः ।
ईदृशः कल्प इत्युक्त्वा ग्रावच्छिद्रमथाविशत् ॥ ६१ ॥
देवानुमत्या भोक्तव्येत्यसावध्यनुमंस्यते ।
 
न कश्चिदेनं मुष्णीयादित्युक्त्वा स्वगृहं ब्रजेः ॥ ६२ ॥
लप्स्यसे च ततः कन्यां जनश्चौर्यश्च नो भवेत् ।
इत्यादिष्टः स हृष्टात्मा यथोक्तमनुतस्थिवान् ॥ ६३ ॥
 
कदाचित् काममखर्या भगिनी रागमञ्जरी ।
नर्तयामास नृत्यन्ती चित्त (जेन समं म)नः ॥ ६४ ॥
 
12