This page has not been fully proofread.

८८
 
अवन्तिसुन्दरीकथासार:
 
लोकापहासलक्षत्वं प्रपन्नो जैनवर्त्मनि ।
अवतीर्णोऽस्मि सौकर्यात्तस्मिन् दुःसहयन्त्रणः ॥ ३९ ॥
 
श्रुतिवर्त्मापवादेन प्रवृद्धानुशयः स्वयम् ।
एकान्तमेत्य शोचा मीत्याकर्ण्याहममाणिषम् ॥ ४० ॥
मा विषादीर्निजैर्द्युम्नर्योजयामीति तां पुरीम् ।
आविशन्नक्षधूर्तानामपश्यं केलिकौशलम् ॥ ४१ ॥
 
क्वचित् प्रमादविन्यस्तशारके हसितं मया ।
 
किं त्वं शिक्षयसि द्यूतं देविष्यामि त्वयेति माम् ॥ ४२ ॥
अभिधायेतरः क्रोधाद् व्यतिषज्य जितो मया ।
सभिकाय समर्ध्याहं जितद्रव्यार्धमुत्थितः ॥ ४३ ॥
विमर्दकः सुहृन्मेऽभूद् यन्मूलं द्यूतमापतत् ।
ततो यथावदश्रौषमाढ्यलुब्धजनं पुरम् । ४४ ॥
तस्करत्वेन लुप्त्वा तान् कृत्यवर्त्म प्रवर्तयन् ।
गाढे तमसि गूढात्मा लुब्धागारमचोरयम् ॥ ४५ ॥
निर्गय नृपमार्गे मां विलोक्य व्यथितां स्त्रियम् ।
दृष्ट्वाक्क यासि कासीति ब्रुवाणं भगति स्म सा ॥ ४६ ॥
 
आर्य ! कन्यास्मि पुर्यस्यां नाम्नाहं कुलपालिका ।
धनमित्राय पित्राहं जातमात्रा प्र (तिश्रुता ॥ ४७ ॥
अर्थसा) त्कृतसर्वस्वं तमनादृत्य दुर्विधम् ।
अद्यार्थपतये नाम प्रदित्सति पिता तु माम् ॥ ४८ ॥
 
तदमङ्गलमप्राप्य वो भावीति निशि (स्वयम् ।
यामि प्रियतमागारम) थैनां दययान्वयाम् ॥ ४९ ॥
 
ततोऽहं रक्षिसंपाते सर्पदष्ट इवापतम् ।
 
सा कन्या मन्नियोगान्मे भार्या भूत्वाश्रुमुख्यभूत् ॥ ५० ॥
 
मुद्रादिभिरुपक्रम्य काल....
 

 
............ प्रायां प्रोत्थायाहं सहानया ॥ ५१ ॥