This page has not been fully proofread.

अष्टमः परिच्छेदः
 
तथा पितामहादीनां श्रूयतां खल्वतिक्रमाः ।
न धर्मपीडां कुर्वन्ति श्रेयान् धर्मस्ततो मतः ॥ २६ ॥
इत्याकर्ण्योल्बणप्रीतिरभ्यधादयि ! सुन्दरि ! ।
अर्थकामा नभिज्ञोऽहं कीदृशाविति साब्रवीत् ॥ २७ ॥
कृष्याछुपायस्तीर्थप्राप्त्यर्थोऽर्थस्त्वर्जनात्मकः ।
अनुत्तरसुखस्पर्शः कामः स्त्रीपुंसयोरिति ॥ २८ ॥
तन्निशम्यासजत्तस्यां मूढात्मा तद्गृहं गतः ।
तया समाजमन्येयुः स निन्ये नृपसन्निधौ ॥ २९ ॥
जिताहमनया दास्यमभ्युपेतमिति प्रभुम् ।
प्रणनामापरा सापि स्तुता जनतया ययौ ॥ ३० ॥
तसृषिं पुनरि(त्यूचे स्वार्थः) कर्तव्य इत्यसौ ।
प्रिये ! किमेतदित्युक्ता सा तत्कारणभ्यधात् ॥ ३१ ॥
यया पराजितं तस्मिन् भवदावर्जनं प्रति ।
पणबन्धस्तया (मेऽभूत् कृतार्था त्वत्प्रसादतः) ॥ ३२ ॥
तच्छ्रुत्वा जातवैराग्यः शून्यमेव न्यवर्तत ।
सोऽहमस्मि क्षणेन स्यां त्वदर्थापादनक्षमः ॥ ३३ ॥
 
अस्यां वसाङ्गपुर्यामित्यथास्तमगमद् रविः ।
(नीत्वा निशां सहानेन नगरायोदचालिषम् ) ॥ ३४ ॥
 
बहिर्विहारमासीनमाधिक्षीणमरूपिणम् ।
 
ऐक्षे क्षपणकं पृष्टः शोकहेतुमशिश्रवत् ॥ ३५ ॥
श्रेष्ठपुत्रोऽहमत्राढ्यो विरूप इति (कीर्तितः ।
अन्यः सुन्दर ) को नाम विश्रुतः कान्तिमानभूत् ॥ ३६ ॥
तयोन वसुरूपोत्थस्पर्धयोः पौरधान्त्रकाः ।
प्रकृष्टगणिकाप्रार्थ्यः श्लाघतामित्यकल्पयत् ॥ ३७॥
( मां पुनर्ग)णिकारत्नं चकमे काममञ्जरी ।
तया स्वायत्तसर्वस्वस्त्यक्तः कौपीनमात्रकः ॥ ३८ ॥