2023-02-26 04:08:07 by ambuda-bot
This page has not been fully proofread.
अवन्तिसुन्दरीकथासार:
यात्रोत्सवादिषु स्फीतमण्डनाया: प्रकाशनम् ।
सङ्गीतादिषु तद्वित्तैर्नैपुणख्यापनं जनैः ॥ १३ ॥
पीठमर्दविटप्रायैः शीलमाधुर्यवर्णना ।
अनल्पेन च शुल्केन स्थापनं यौवने (स्थते ॥ १४ ॥
विशिष्ट ) गुणयुक्ताय स्वतन्त्राय समर्पणम् ।
गुणाढ्यायाल्पशुल्केऽपि दानं बहुपदेशतः ॥ १५ ॥
अस्वतन्त्राय वा दत्त्वा गुरुभ्यः शुल्कसंग्रहः ।
( गान्धर्वेण धनालामे स्वीकृत्य स्वा) मिनं धनैः ॥ १६ ॥
नीत्यागम्य धनादानं दुग्धप्रायेण विग्रहः ।
लुब्धस्य रागिणस्त्यागोत्थापनं प्रतिहस्तिना ॥ १७ ॥
असारस्यावमानैर्वाक्तर्जनै (रपवाहनम् ।
अर्थरैर्धनिभि)र्भूयः संयोजनमिति स्थितिः ॥ १८ ॥
गणिकायाश्च युक्ता नो गम्यं प्रत्यनुरागिता ।
सत्यामपि क्वचित् प्रीतौ मातृवाक्यानतिक्रमः ॥ १९ ॥
स्वधर्म (मनवेक्ष्येयं क्वचि) वैदेशिके द्विजे ।
रमते स्वव्ययेनैषा कुटुम्बं चावसादितम् ॥ २० ॥
निषिद्धा वनवासाय प्राप्तेयं चेत्तपस्यति ।
संस्थास्यते जनः सर्वोऽप्यत्रैवेति रुरोद सा ॥ २१ ॥
आश्वास्यैनां तपश्चर्यादुश्वरत्व निदर्शनैः ।
निर्बद्धा मुनिनाप्येषा जाता निश्चलनिश्चया ॥ २२ ॥
कालेनानुचितक्लेशा व्यवसायाद् विरंस्यति ।
गम्यतामिति तेनोक्तस्तथेति स्वजनो ययौ ॥ २३ ॥
भक्त्या परिचरन्त्येनमर्चनाकुसुमोच्चयैः ।
त्रिवर्गबद्धया वाचा न चिरात् सान्वरञ्जयत् ॥ २४ ॥
एकान्ते सा तमित्यूचे प्रसङ्गादर्थकामयोः ।
धर्ममेवोत्तमं मन्ये यत्ताभ्यां नैष बाध्यते ॥ २५ ॥