This page has not been fully proofread.

>
 
अष्टमः परिच्छेदः
 
॥ अथ अष्टमः परिच्छेदः ॥
 
अथासौ सिकतोद्देशे निषीदन् ( समुपस्थितान् ।
आश्लिष्य सुहृदः सर्वान) नुरूपमुपाचरन् ॥ १ ॥
बुद्ध्वा सम्बन्धिनस्तेषां वनमित्रादिकानसौ ।
अभिनन्द्यात्मनो वृत्तं विस्तीरयोरपि ॥ २ ॥
( शुश्रूषुश्चरितं तेषांमन्वयुङ्क्त क्रमे)ण तान् ।
अपहारः प्रणम्याथ स्ववृत्तान्तमवर्णयत् ॥ ३ ॥
नगरन्ध्रगते देवे मृगयित्वा भवद्गतिम् ।
चरन्नाकर्ण्य चम्पायां मरीचिं नाम तापसम् ॥ ४॥
जिज्ञासुस्त्वद्गतिं तस्माद्दिव्यज्ञानजुषो मुनेः ।
गत्वा तदाश्रमं तस्मिन्नपश्यं विवशं मुनिम् ॥ ५॥
कुतो मरीचिरस्मान्नः प्रतिपत्स्ये सुहृद्गतिम् ।
महात्मा स किलेत्युक्तः स मां प्राह स्म निःश्वसन् ॥ ६ ॥
 
तादृशो मुनिरासीत् तं गणिका काममञ्जरी ।
ववन्दे जातु जातार्तिर्माता च पुनरापतत् ॥ ७ ॥
पृष्टा किमित्यवोचत्ते चरणौ शरणं गता ।
आमुत्रिकसुखायेत्थं जननी च व्यजिज्ञपत् ॥ ८ ॥
एषा मे दोषमाचष्टे स्वाधिकारावतारणम् ।
एष खल्वधिकारो नो दुहितुः साधु वर्धनम् ॥ ९ ॥
अङ्गक्रिया मिताहारैः पोषणं धातुवर्धनैः ।
उत्सवः सर्वदा पुसां शैशवे नातिदर्शनम् ॥ १० ॥
शिक्षा चानङ्गविद्यानां नृत्तवाद्यादिबोधनम् ।
वार्तावबोधनं शास्त्रेष्वाजीवज्ञानलम्भनम् ॥ ११ ॥
क्रीडा सजीवनिर्जीवद्यूतादिष्ववतारणम् ।
 
अभ्यासनं जनादाप्तादभ्यन्तरकलासु च ॥ १२ ॥
 
८५