This page has not been fully proofread.

८४
 
अवन्तिसुन्दरीकथासार:
क्षोभान्ममोरश्च्युतहारयष्टि
स्पृष्टेन रोषादघमर्षणान्ते ।
 
शप्तास्मि हप्ते ! भव शृङ्खलेति
 
द्विजेन मन्दोदकवापिकायाम् ॥ ८८ ॥
 
प्रसाद्यमानेन मयेन्द्रियाणा-
मक्षीणशक्तित्वमकारि तेन ।
 
मासद्वयं त्वच्चरणोषितायां
 
मोक्षश्च पश्चादभवं तथैव ॥ ८९ ॥
 
तामाददे मानसवेगसूनु -
 
विद्याधरः प्राप स दर्पसारम् ।
 
तेनापकर्तुं नरवाहनाद्ये
 
दत्तेऽद्य विद्याधरकर्णवारे ॥ ९० ॥
 
स्वसुः प्रदानं धुचराय तस्मै
 
प्रतिश्रुतं तेन स जातु कान्ताम् ।
त्वदङ्कसुप्तामवलोक्य कोपा -
 
न्मया तवा त्रिद्वितयं बबन्ध ॥ ९९ ॥
 
मुक्तोऽद्य शापः करवाणि किं ते
प्रसीद देवेति नतानताङ्गी ।
महार्तयाश्वासय वासु ! कान्ताम्
 
इतीरिता तेन दिवं जगाम ॥ ९२ ॥
 
अह्वायाथ द्विपवरमुपारुह्य तं कोपवाह्न -
ग्रासीकुर्वन् रिपुचलमसौं रोषताम्रायताक्षः ।
अन्तर्गेहाद विवहनविधौ चण्डवर्माणमन्तं
 
नीत्वायान्तं सुहृद ( मपहाराव्यम) ग्रे ददर्श ॥ ९३ ॥
 
मुक्त्वा चम्पेश्वरमुपनतं तस्य साहाय्य हेतो-
स्तत्रोपेतं तदनु सकलं मित्रलोकं विलोक्य ।
.. भेजे दीप्रैरुभय......
मन्दाकिन्याः पुलिनमुदितानन्दमुद्यन्निवेन्दुः ॥ ९४ ॥
 
........
 
॥ इत्यवन्तिसुन्दरीकथासारे सप्तमः परिच्छेदः ॥