This page has not been fully proofread.

८२
 
अवन्तिसुन्दरीकथासार:
 
मनोरपीक्ष्वाकुरमुष्य......
 
........
 
.. मित्रादपि मानसारः ।
स एष नाम्ना खलु रत्नदेव्याः (व्यां ?)
कन्यामयं रत्नमवाप देव्याम् ॥ ७४ ॥
 
गृहाण तामित्युदकञ्च पित्रा
 
स पातयामास कुमारपाणौ ।
निधाय वह्निं विधिवत् पुरोधा
 
विधिं विवाहोचितमाचचार ॥ ७५ ॥
 
वधूवरे गर्भगृहं प्रविष्टे
 
गते मुनीन्द्रे सहराजहंसे ।
 
आदाय विद्येश्वरसोमदत्तौ
 
पुष्पोद्भवोऽपि स्वगृहं प्रपेदे ॥ ७६ ॥
 
सविस्मये राजकुले सतापे
 
विज्ञाय मायेति नृपे कुमारः ।
 
विस्रम्भयन्नर्मकथान्तरैस्तै-
रेमे रमण्या रमणीयमूर्तिः ॥ ७७ ॥
 
अथोपहूतः श्वशुरेण राज्ञा
 
विलोकनाय प्रतिपारियात्रम् ।
 
आदाय तस्यानुमतेः स्वकान्तां
 
ससौव्रतेयः प्रययौ पुरोधाः ॥ ७८ ॥
 
नक्षत्रताराकुलमन्तरिक्षं
सन्दर्शयन्निन्दुमरीचिगौरः ।
 
शरन्निशि प्राणसमां कुमार-
स्तस्यै जगदुवृत्तमुदाजहार ॥ ७९ ॥
 
ततस्तयेत्थं विविधान् विशेषान्
 
निर्विश्य निद्रानुभवावसाने ।
 
अबोधि बद्धं निगलेन पश्य
 
नात्मीयमङ्घ्रिद्वितयं कुमारः ॥ ८० ॥