2023-02-26 04:08:06 by ambuda-bot
This page has not been fully proofread.
  
  
  
  ८०
  
  
  
   
  
  
  
अवन्तिसुन्दरीकथासारे
   
  
  
  
प्रादुर्बभूवुः पुर( तश्च नागा )
   
  
  
  
स्तद्भक्षिणः पक्षिगगास्ततोऽपि ।
   
  
  
  
बहुप्रकारानिति दर्शयित्वा
   
  
  
  
योक्ष्यन् वरेण्येन वरेण कन्याम् ॥ ६० ॥
   
  
  
  
शस्त्रेण राजा शकलीकृतो य
   
  
  
  
स्त्वया सुतस्तस्य तपस्यतोऽभूत् ।
   
  
  
  
स चक्रवर्ती भविता तवेमां
   
  
  
  
लभेत पुत्रीमिति भूपमूचे ॥ ६१ ॥
   
  
  
  
सविस्ायः स्वामनुमान्य देवीं
   
  
  
  
सुतां नरेन्द्रः स्वयमाजुहाव ।
   
  
  
  
मायामयी लोकसंमक्षमन्या
   
  
  
  
कन्या कृता विस्मयदर्शिनीति ॥ ६२ ॥
   
  
  
  
आहूय मायामयमानसार-
मन्त्रिप्रधानेन ततः कुमारीम् ।
   
  
  
  
विद्येश्वरः क्ऌप्तविवाहवेषं
   
  
  
  
तं दर्शयामास नरेश्वराय ॥ ६३ ॥
   
  
  
  
कुमारमेत्याग्निरथोऽपि तावद्
   
  
  
  
गुरून् समानेतुमथोत्पपात ।
   
  
  
  
क्षणेन च प्राप विमानमेकं
   
  
  
  
सर्वान् समारोप्य सवामदेवान् ॥ ६४ ।
   
  
  
  
ततो मुनीन्द्रैः सह राजहंसं
   
  
  
  
राजर्षिमभ्यागतमभ्यनन्दत् ।
   
  
  
  
अवन्तिनाथः पितरौ कुमारो
   
  
  
  
मुनिं च सानन्दमना ववन्दे । ६५ ।
   
  
  
  
तं वामदेवो वरमेवमूचे
   
  
  
  
कालाश्रयं वत्ल ! जगत् समस्तम् ।
तस्मिन्निमेषादिसहस्र भेदे
   
  
  
  
कालेऽपि सन्तो विवदन्त एव ॥ ६६ ॥
   
  
  
  
  
अवन्तिसुन्दरीकथासारे
प्रादुर्बभूवुः पुर( तश्च नागा )
स्तद्भक्षिणः पक्षिगगास्ततोऽपि ।
बहुप्रकारानिति दर्शयित्वा
योक्ष्यन् वरेण्येन वरेण कन्याम् ॥ ६० ॥
शस्त्रेण राजा शकलीकृतो य
स्त्वया सुतस्तस्य तपस्यतोऽभूत् ।
स चक्रवर्ती भविता तवेमां
लभेत पुत्रीमिति भूपमूचे ॥ ६१ ॥
सविस्ायः स्वामनुमान्य देवीं
सुतां नरेन्द्रः स्वयमाजुहाव ।
मायामयी लोकसंमक्षमन्या
कन्या कृता विस्मयदर्शिनीति ॥ ६२ ॥
आहूय मायामयमानसार-
मन्त्रिप्रधानेन ततः कुमारीम् ।
विद्येश्वरः क्ऌप्तविवाहवेषं
तं दर्शयामास नरेश्वराय ॥ ६३ ॥
कुमारमेत्याग्निरथोऽपि तावद्
गुरून् समानेतुमथोत्पपात ।
क्षणेन च प्राप विमानमेकं
सर्वान् समारोप्य सवामदेवान् ॥ ६४ ।
ततो मुनीन्द्रैः सह राजहंसं
राजर्षिमभ्यागतमभ्यनन्दत् ।
अवन्तिनाथः पितरौ कुमारो
मुनिं च सानन्दमना ववन्दे । ६५ ।
तं वामदेवो वरमेवमूचे
कालाश्रयं वत्ल ! जगत् समस्तम् ।
तस्मिन्निमेषादिसहस्र भेदे
कालेऽपि सन्तो विवदन्त एव ॥ ६६ ॥