This page has not been fully proofread.

अवन्तिसुन्दरीकथासार:
 
कन्या वितीर्णा वरवर्णिनी ते
 
यः कन्यकायाः कलयेत् करान्तम् ।
अनर्चिता त्रांनपि चेन्ममतून्
 
चित्तामयेन म्रियते पुरायम् ॥ ४६ ॥
 
इत्येवमेनामपि पारियात्रः
 
कुर्याममित्रान्ततयेति मत्वा ।
 
तां मत्तकालाय निनाय कन्या
 
(मुक्ता विपञ्चा) पतिता तत्रेयम् ॥ ४७ ॥
 
अवन्तिपुर्या त्वरया पुराि
 
ततोऽर्चयामेत्यमुयाप्यमैत्र ।
आनीतवान् मामयमंत्रं च त्वा..
 
मालोक्य निर्वा( ण इवामयो मे) !॥ ४८ ॥
 
इति श्रुते मन्त्रिणि तत्सुते च
 
प्रयुज्य पूजां मनुजेन्द्रसूनुः ।
हरार्चनोल्लाघसुहृत्सहायः
 
पुष्पोद्भवस्यालयमाविवेश ॥ ४९ ॥
 
पुष्पोद्भवस्याथ समीक्ष्य माता
 
दिष्टयेव दृष्टः कृपयामुनैत्र ।
 
उज्जीविताहं विपिने विपन्ने-
त्यादिश्य विद्येश्वरमापात ॥ ५० ॥
 
तस्मिन् दिने मित्र समाजरम्ये
 
गते परेधुः स तु सौव्रतेयः ।
 
प्रापथ्य विद्येश्वरसोमदत्ता-
*
 
वुपहरं प्राक्रमतामिधातुम् ॥ ५१ ॥
 
अजायतैवं जरितारिशापात्
 
साम्बः कुमारोऽयममुष्य देवी ।
 
अवन्तिसुन्दर्यजनि स्मरन्तौ
 
परस्परं तौ क्षणमैक्षिपाताम् ॥ ५२ ॥
 
1