This page has not been fully proofread.

सप्तमः परिच्छेदः
 
कन्या तु कामाचितविक्रिया मां
व्रीलाविनम्राननमालुलोके ।
अलोक्य तत्रान्तिकवर्तिनी मा-
मित्यालपन्मन्त्रिकुमारकान्ता ॥ ३९ ॥
 
वक्त्रान्मम त्वचरितान्यवेत्य
 
प्रीतेयमत्राप्यतिमानवेन ।
 
रूपेण रम्येण पराक्रमेण
 
क्रीतेव ते कर्मकरी कुमारी । ४० ॥
 
इत्यन्तरे मन्त्रिकुमारपूर्वा
 
मामन्ववर्तन्त परे च वीराः ।
 
लाटः पुनः पीलुपतिप्रणीतां
 
वार्तामवेत्याकुलमापपात ॥ ४१
 
रोपैरनेकानुचरं विचित्रै-
रालातचक्रेग च वारणेन ।
 
रणान्तरे लाटपर्ति रिपुं तं
 
यमालयं प्रापयमात्तकोपम् ॥ ४२ ॥
 
पत्रेण मन्त्री मतिपालनामा
 
तां पारियात्राय दिनाय वार्ताम् ।
प्रीतः परं तेन वितीर्य कन्या-
माकारयन्मामपि वरिकेतुः ॥ ४३ ॥
 
प्रामापत् पुनरामयात्मा
 
मामेवमूचे च विलोक्य मन्त्री ।
 
कार्यान्तर'त् तात ! वयं प्रश्न्नाः
 
पुरा पुराराातेमवान्तपुर्याम् ॥ ४४ ॥
 
मालावती नाम च वीरकेतोः
 
पत्नी त्रिणेत्रं चिरमर्चयन्ती ।
 
तं कन्यकापत्यमया चतैनां
 
प्रीतः पिनाकी पुनारेत्युवाच ॥ ४५ ॥
 
७७