This page has not been fully proofread.

७६
 
अवन्तिसुन्दरीकथासार:
 
इतीरितां वाचमवेत्य वाप्यां
रक्तावलिप्तं परिपूय कायम् ।
वेलापतेरुच्चलिते रवाव-
व्याकर्णयं व्याकुलरावमेवम् ॥ ३२ ॥
 
मित्रं प्रमाप्यात्मनिकेतनेऽपि
 
व्यलीकमारोप्य च मानपालः ।
 
प्रकण्टकं पीलुपतिप्रयुक्तै-
र्नियन्त्रितो यातयितुं प्रणीतः ॥ ३३ ॥
 
:
 
न युक्तमित्यत्र च मानपाले
 
ऋराणि कर्माण्यविनीत एव ।
 
प्रकण्टकः किं च तयोक्तमेतत्
 
कोऽप्याचरन्मारयितुं ममेति ॥ ३४ ॥
 
लोकप्रलापानिति तत्र चित्रा-
नाकर्ण्य तूर्णं विचरन्नुपान्ते ।
 
तां पारियात्राव निपलकन्यां
 
न्यरूपयं तत्र च पर्वतान्ते ॥ ३५ ॥
 
मारातुरः किचन चिन्तयित्वा
 
विमुच्यतां मन्त्रिकुमार आर्तः ।
एतन्मयवाक्रियतामुना ने.
 
त्यवोचमुच्चैः करमुन्नमय्य ॥ ३६ ॥
 
ते पञ्च चोरा अपि मानपालं
 
परीयुरुन्मूल्य बलं रिवृणाम् ।
 
याता वयं यत्र च चित्तचोरी
 
तं पर्वतं वैरिनिवारणाय ॥ ३७ ॥
 
विलुप्तमौलः पुनरेत्य कान्तां
 
प्रवातवल्लीमिव वेपमानाम् ।
चोरा वयं ते परिपालनीया
 
इत्यालपं तच्चरणान्तवर्ती ॥ ३८ ॥