This page has not been fully proofread.

BJWL FCP
 
GNO92092
 
सप्तमः परिच्छेदः
 
पचपचोराः कटकानुयाता
 
अमात्य दुत्रानुचरा वयं ते ।
 
रत्नानि लाटालय मेत्य वैरी-
त्यचोरयामात्र निलीयमानाः २५ ॥
 
वने क्वचिञ्चोरितरत्नमेकं
 
च्युतं ततः प्राप्य निकेतमार्ताः ।
 
एतन्निमित्तं पुनरप्युपेताः
 
क्रान्ता वयं चैवमनीकवीरैः ॥ २६ ॥
 
आकर्ण्य चैतच्चरणेन यन्त्रं
 
लूवा वयं नक्तममैव चोरैः ।
लुप्त्वालयं कान्यपि यामिकाना-
मालूय कन्याकटकं प्रपन्नाः ॥ २७ ॥
 
तत्रैकतो यामवतीविरामे
 
क्लृमान्निमीलन्नयनोऽप्युशन्ते ।
 
पत्रेण नारीमपि मारयन्तं
 
कमप्यलङ्काररुचा व्यलोके ॥ २८ ॥
 
तं मारयित्वा वनितामवोचं
 
का त्वं किमित्यःलपितं च तन्व्या ।
अवैतु कन्यापरिचारिकां मां
 
कल्याणवर्मा मम मानपालः ॥ २९ ॥
 
अमात्यपुत्रः प्रणयी च योऽयं
 
कल्याणिना कालपुरं प्रणीतः ।
 
प्रकण्टको नाम चमूपतेर्नः
 
कुलान्तकः पीलुपतेः कुमारः ॥ ३० ॥
 
i
 
मैत्री परा पत्युरनेन चायं
 
चिरायमाणे रमणेऽत्र रात्रौ ।
 
प्रेग्णानुनीय प्रतिकूलरूपां
 
मां मारयन् कारुणिक त्वयाप्तः ॥ ३१ ॥