This page has not been fully proofread.

७४
 
अवन्तिसुन्दरीकथासार:
 
लाटोत्तमे तत्र च मत्तकाले
 
कन्यानिमित्तं प्रात पारियात्रम् ।
 
प्रवर्तमाने कटकानुवर्ती
 
चराम्यरण्ये परियाचनाय ॥ १८ ॥
 
एवं मयाकर्ण्य मणौ वितीर्णे
 
विप्रे ततः प्रीततरे प्रयाते ।
प्रमीलितः किश्चन तं च विषं
 
किमप्यनीकं पुरतो व्यलोकि !॥ १९ ॥
 
ते मामवोचन परिवार्य कोपा-
न्मित्राणि चान्ये मणयः क्व चेति ।
नावैमि किश्चित् पुलिने मयैत-
न्माणिक्यमालोकितमित्यत्रोचम् ॥ २० ॥
 
एतावनान्यानपि पञ्च चोरा-
नानीय तान् नः कटकं नयन्तः ।
 
ते मानवाः कर्णकटु क्वणन्तः
 
कारालयं नो नियमय्य निन्युः ॥ २१ ॥
 
उक्ता विविक्ते तु मया किमेतत्
 
के यूत्रमित्यूचुरमी च चोराः ।
लाटोऽयमन्त्रापचिते रिपाव-
प्यलं निकर्तुं न तु पारियात्रः ॥ २२ ॥
 
तत्कन्यकां लाटपतिः प्रतीतां
 
नाम्ना च वामाश्चितलोचनेति ।
 
आकर्ण्य तूर्णं परिणेतुकामः
 
प्रचक्रमे मित्रतया प्रयातुम् ॥ २३ ॥
 
अवेत्य तन्मित्रतयाप्यरातेः
 
प्राप्तिर्न युक्तेनि विचार्य कन्याम् ।
 
अमात्यमित्रावनिपालयुक्ता-
मनीनयत्तामपि पारियात्रः ॥ २४ ॥
 
-