This page has not been fully proofread.

सप्तमः परिच्छेदः
निर्वेदकरमाचारं दृष्ट्वा तेषां दुरात्मनाम् ।
निवृत्तः सर्वंसंसारान्मरणायेदमारमे ॥ ८ ॥
 
इति श्रुत्वा शुभां वाचं व्याजहार नृपात्मजः ।
सत्यं दुःसह एवासौ पुंसां दुर्जनसङ्गमः ॥ ९ ॥
 
सन्त्येव भुवि सन्तोऽपि तुल्याः स्वार्थपरार्थयोः ।
सद्भिः सहोपत्रासोऽपि स्वदेतान्यैः सुखाशनात् ॥ १० ॥
 
अपनीयायुषि द्वेपं तद् भवाननुयातु नः ।
इति ब्रुवति तत्रैका शिबिका समदृश्यत ॥ ११ ॥
तस्यां वर्षवरप्रायैः स्त्रीजनैर्वृतमन्तिकात् ।
रुजा परीतमेत्यामी सोमदत्तमलक्षयन् ॥ १२ ॥
 
सोमदत्तः सुहृत्प्रेम्णा स्वस्थीभूतः स तैः सह ।
प्रच्छाये क्वचनासीनो निगृह्य ज्वरवेदनाम् ॥ १३ ॥
वर्गाद्यन्तान्तस्थैर्ऋऌवर्णविवर्जितैः स्वरैर्मृदुभिः ।
स चतुर्विंशतिवर्णैः स्वचरितमनुवर्णयांचक्रे ॥ १४ ॥
कुमार ! तत्राचलकानने त्व-
व्यलोकिते ताम्यति मित्रलोके ।
चरत्यवन्यामनुपारियात्रं
 
10
 
वनोर्निमालिन्यपरा मयापे ॥ १५ ॥
 
ततो मणिं तत्पुलिने निलीनं
 
विलोक्य मत्वा पतितं कुतोऽपि ।
 
पटान्तमानीय चरन्नटव्यां
 
व्यलोकयं विप्रकमार्तरूपम् ॥ १६ ॥
 
विचार्यते केन वनं त्वयैत-
न्मयैवमुक्ते लपितं च तेन ।
 
अकिञ्चनः किञ्चन याचमानः
 
प्राणकियां लाटपतेर्नयामि ॥ १७ ॥
 
७३
 
"