This page has not been fully proofread.

७२
 
1.
 
अवन्तिसुन्दरीकथासार:
 
निपुणमिति कुमारः पूर्वजन्मोचितार्था
 
रमयितुमथ गाथां प्राहिणोत् प्राणनाथाम् ॥ १६८
 
इत्येनां तदनु विसृज्य सोपचारं
 
यत्रास्य प्रियजनदर्शनोत्सवोऽभूत्
आनन्दस्तिमितमना विनोदनार्थी
 
तं देशं ससुहृदुपाययौ कुमारः ॥ १७० ॥
॥ इत्यवन्तिसुन्दरीकथासारे षष्ठः परिच्छेदः ॥
॥ अथ सप्तमः परिच्छेदः ॥
अथालोक्य द्विजं कञ्चित् प्रभाते देवमन्दिरे ।
स प्रायोपवेशाय प्राध्यैनं तावपृच्छताम् ॥ १ ॥
अकस्मात् किमयं कायस्त्यज्यते को भवानिति ।
पृष्टः प्रान्तोपविष्टाभ्यां ताभ्यां भूतार्थमभ्यधात् ॥ २ ॥
अग्रहारोऽस्त्यगत्याशाभूत्रणं चोलभूमिषु ।
व्याघ्रप्रामाह्वयः सोऽयं तद्देशाभिजनो जनः ॥ ३ ॥
विप्रो विद्येश्वर राख्योऽस्मि ज्ञात्वा मन्त्रं कुतोऽप्यहम् ।
गारुडं तेन वित्तार्थी लब्धविद्यालवोऽभवम् ॥ ४ ॥
सर्वेषां पुरुषार्थानामर्थाधीनतया पुनः ।
अशिश्रयममर्यादं राजवेश्म किमप्यहम् ॥ ५ ॥
तत्र क्षुद्रान् पशुप्रायानपश्यं पार्थिवब्रुवान् ।
उपचीयन्त एवैषां मलानि त्वमिषेकतः ॥ ६ ॥
येषां दोषेषु सौहाई साहसेषु सहायधीः ।
नयज्ञबुद्धिर्मायाविष्वश्लीलोक्तिषु वाग्मिता ॥ ७ ॥
 
क.
 
स्मर.
 
अरुन्धती 'मरिशरपीडितात्मनो
 
यदाश्रमे तरुणि ! पुराप्यदर्शयः .........
 
तदद्य ते हृदि मदनास्त्रमुद्रितं
 
मृदुस्मिते ! लिखितमित्रात्र तिष्ठति ॥ १६९ ।