This page has not been fully proofread.

षष्ठः परिच्छेद:
 
साना समीक्ष्य संप्रान्ता चिन्ताभारकृशा भृशम् ।
अपृच्छन्मां परिष्वज्य त्वद्वृत्तान्तमनन्तरम् ॥ १५७ ॥
मयोक्तं देवि ! सोऽप्येवं किमपि व्यक्तविक्रियः ।
गतायां त्वयि संतापादकरोद् वासरक्रियाम् ॥ १५८ ॥
 
गते सुहृद्गृहं तस्मिन्नाहूताहमिहागता ।
भद्रे ! कथमियं जाता वदने कथय व्यथा ॥ १५९ ॥
 
इति पृष्टा परिष्वज्य प्रेमगाढं चिराय माम् ।
अतिगम्भीरमारेमे विविक्ते वक्तुमित्यसौ ॥ १६० ॥
 
सखि ! पश्याप्रकाश्येयमावयोः श्रूयतां कथा ।
स एव साम्बः किं गुप्त्या यज्ञत्रत्येव सास्म्यहम् ॥ १६१ ।
 
त्वयापि श्रुतमेवावामेवं देवा पुरेशयोः ।
 
जनित्वा मुनिशापेन प्र यावो विरहव्यथाम् ॥ १६२ ॥
अहो ! मे हृदि नै यचिरोपनते प्रिये ।
 
नाश्लिष्टं कष्टमौचित्य चिन्तितं पापया मया ॥ १६३ ॥
 
इत्यालपन्ती संतापे मज्जन्ती मदुरःस्थले ।
 
मूर्च्छया पतिता भूयः प्रत्याश्वस्येदमभ्यधाम् ॥ १६४ ॥
 
"न युक्तं सखि ! संतप्तुं संतोषविषये त्वया ।
किं ते जन्मान्तरप्रेयानचिरादनुभूयताम् ॥ १६५ ॥
 
अनुरूपवरप्राप्तिः पितृभ्यां तेऽनुमन्यते ।
चण्डवर्मा विरुन्ध्यात्तत् कर्तव्यो गूढसंगमः ॥ १६६ ॥
 
इत्यादि चिरमुक्त्वैनामाश्वास्याहमिहागता ।
दुर्वचा वर्तते तस्या न जाने कीदृशी दशा ॥ १६७ ॥
 
इति मृदु कथयित्वा लज्जयानम्रवक्त्रां
 
वरतनुमभिधाय स्वैरमात्मीयवार्ताम् ।
 
1.
 
साहं. खं.
 
2. र्घृण्य. ख. ग.
 
3. पैर्म.
 
4.
 
७१
 
क. ग.
 
गच्छ त्वं सखि संतसं, क. ग.