This page has not been fully proofread.

अवन्तिसुन्दरीकथासार:
 
विमृगन् मृदुवतीक्ष्णैर्विशिखैर्निखिलं जगत् ।
 
दुरात्मा कारयत्येव प्राणिनः किं न पातकम् ॥ १४४ ॥
 
श्रक्षेपवर्ति त्रैलोक्यं कुर्वता क्रूरकर्मणा ।
असंख्याः खण्डितप्राणाः पुण्डरीकादयोऽमुना ॥ १४५ ॥
अनेनैत्र प्रियाहेतोरत्यर्थं चित्तजन्मना ।
अविषह्यस्मरावस्था वयं चेत्यं कदर्शिताः ॥ १४६ ॥
 
करपत्रायते वायुः शिखिपुञ्जायते शशी ।
रम्यभूतानि वस्तूनि व्यत्यस्तानीव भान्ति मे ॥ १४७
किं कर्तव्यमिति श्रुत्वा हृष्टः पुष्पोद्भवोऽभ्यधात् ।
सत्यं सर्व इमे दोषाश्चित्तजन्मनि किन्त्विह ॥ १४८ ॥
लाध्यामिजनशीलायां प्रियायां प्रथमं तव ।
युक्तं चित्तभुवारब्धं सहशस्त्रेहकारिणा ॥ १४९ ॥
व्यतिरिक्तविकारैव त्वत्तोऽपि नृपकन्यका ।
तदत्रामिमतप्राप्तौ विषादस्तव किं कृतः ॥ १५० ॥
 
दर्पसारमवज्ञाय स्वसुरस्याः करग्रहः ।
तेजोऽनुरूपं तत् सर्व कल्याणमिव लक्ष्यते ॥ १५१ ॥ ॥
इत्यस्मिन्नन्तरे प्राप्ता विविक्ते बालचन्द्रिका ।
आचष्ट कुशलं पृष्टा सप्रत्ययमिदं वचः ॥ १५२ ॥
देवाद्य कुशलं देव्या यथावस्था निशम्यताम् ।
त्वद्दर्शनात् प्रभृत्यस्या विरक्तिः सर्ववस्तुषु ॥ १५३ ॥
 
तयाहूता सखीं द्रष्टुं तुङ्गतोरणगोपुरम् ।
लक्ष्मीमयमिवाश्चर्य प्राविक्षं नृपतिक्षयम् ॥ १५४ ॥
 
गत्वा कन्यापुरोद्देशं तत्रोद्यानगता गिरः ।
चित्राः परिजनस्त्रीणामश्रौषं तापशंसिनीः ॥ १५५ ॥
ततः क्रीडासरस्तीरे धारागृहगतां सखीम् ।
अन्यामिव शुचा शोभ्यामपश्यं नृपकन्यकाम् ॥ १५६ ॥