This page has not been fully proofread.

षष्ठः परिच्छेदः
 
तया चित्रीयमाणः स प्रवृत्त्या नृपनन्दनः ।
चकाराभ्यवहारादिष्वाभिमुख्यं सुहृदुगिरा ॥ १३२ ॥
 
अथाम्बुवहतिं पश्यत्यनुरक्ते दिनश्रिया ।
विहर्तुमिव मार्ताण्डेऽप्यवतीर्णेऽरार्णवम् ॥ १३३ ॥
 
क्रमेण तरुणीभूते तमसि ग्रहमण्डले ।
मण्डयत्यम्बरं चन्द्रेऽप्यैन्द्रीवदनचुम्बिनि ॥ १३४ ॥
 
प्रदोषसमये प्राप्ते निवृत्ते जनसंकुले ।
 
कथंकथमपि प्रापत् कुमारः ससुहृद् गृहम् ॥ १३५ ॥
 
चक्रे शय्यागतश्चिन्तां चिरदृष्टापि मे प्रिया ।
न पृष्टा कुशलं कष्टं दूरे कण्ठग्रहादयः ॥ १३६ ॥
 
सा राजकन्या संवृत्ता वयं च गुरुयन्त्रिताः ।
असह्यः स्मरसन्तापः किमत्र करवाण्यहम् ॥ १३७ ॥
अदत्तां गुरुभिः कान्तामदृष्ट्वा च पुरोधसम् ।
न शक्यं परिणेतुं तत् सर्वथा दुर्वहो भरः ॥ १३८ ॥
चिन्तयन्तममुं दृष्ट्वा सन्ततेत्र ततो गता ।
अवश्यायाश्रु वर्षन्ती नमदिन्दुमुखी निशा ॥ १३९ ॥
मुखमाखण्डलाशाया मण्डयत्यर्कमण्डले ।
प्रभाते सुहृदभ्येत्य व्याजहे राजवाहनम् ॥ १४० ॥
देव ! जागरकारी ते विकारः किमकारणम् ।
अकस्मादियमङ्गानां कथय क्षामता कथम् ॥ १४१ ॥
 
इत्युक्तः प्रत्युवाचैनं कुपारः श्रूयतामहम् ।
साम्ब एवास्मि सा कन्या यज्ञवत्येव मे प्रिया ॥ १४२ ॥
 
अद्यैनामनवद्याङ्ग प्रसङ्गात् पश्यतः प्रियाम् ।
सुप्तोत्थित इवात्यर्थ जृम्भते मे मनोभवः ॥ १४३ ॥
 
भ्लान. ख..
 
1.
 
६९