This page has not been fully proofread.

६८::
 
अवन्तिसुन्दरीकथासारः
 
पूर्वजन्मप्रियामेनां जानन्नपि नृपात्मजः ।
धैर्य राशिरनाश्लिष्यन्नतिष्ठत् कथमप्यसौ ॥ ११९ ॥
सापि जन्मान्तरस्मृत्या दूत्येव दृढमाप्तया ।
प्रेर्यमाणापि धैर्येण प्रत्युत्थानादि नाकरोत् ॥ १२० ॥
जृम्भितोत्कम्परोमाञ्चस्वेदश्वासादिविक्रियाम् ।
 
तां क्षणनिष्पन्दां ववन्दे बालचन्द्रका ॥ १२१ ॥
 
दृष्ट्वा
 
उत्थाय परिरभ्यैनामन्यव्याजान्नृपात्मजम् ।
सविभ्रमं प्रणम्योर्व्या निषसाद नृपात्मजा ॥ १२२ ॥
 
स राजवाहनं पश्यन सर्व एवाङ्गनाजनः ।
पुष्पधन्वानमेनं मूर्तिमन्तममन्यतः ॥ १२३ ॥
 
वसुमत्यामयं जातो राजहंसान्महीपतेः ।
 
येन त्वं लिखितेत्येवं व्याख्यौ बालचन्द्रिका ॥ १२४ ॥
 
तयोरनङ्गसङ्गीतभङ्गीरङ्गायितात्मनोः ।
 
विकारा विविधाकारा बभूवुर्बहुविभ्रमाः ॥ १२५ ॥
 
ततो हंसप्रसङ्गेन व्याजहार नृपात्मजः ।
न पीडनीयाश्चक्राङ्गास्तथा हि श्रूयतां कथा ॥ १२६ ॥
आसीत् कंसरिपोः पुत्रः साम्य इत्यस्य वल्लभा ।
अभूत् त्रिभुवनस्त्रीणां भूषणं भौमनन्दना ॥ १२७ ॥
स तथा सरसि क्रीडन्मृणालैर्निंगलं ददौ ।
हंसाकेर्मुनेः शापान्मानुपत्वमभूत्तयोः ॥ १२८ ॥
 
अभिन्नरूपतां तत्र स्मरणं दर्शने तयोः ।
अल्पकालं च विश्लेषं कल्लयामास तन्मुनिः ॥ १२९ ॥
श्रुत्वा नृपसुताप्येवं यज्ञवत्यपि तत् फलम् ।
मुक्त एव तथा भूतेत्यतिगम्भीरमभ्यधात् ॥ १३० ॥
ततो मातृनिदेशेन व्यथमाना कथञ्चन ।
तद्गतेनैव चित्तेन प्रतस्थे नृपकन्यका ॥ १३१ ॥