2023-02-26 04:08:03 by ambuda-bot
This page has not been fully proofread.
w
अवन्तिसुन्दरीकथासारः
अपरेछुः सहस्रार्चिष्युदयाचलचुम्बिनि ।
समादिष्टोत्सवं द्रष्टुं ससुहृद् राजवाहनः ॥ ९५ ॥
निष्कम्य नगरद्वारात् सिप्रावप्रगतो ययौ ।
पश्यन् पौरजनारब्धं तस्मिन्नुत्सवसंकुलम् ॥ ९६ ॥
पूर्वोज्जयिनिकां रम्यां वीक्षमाणः क्रमेण सः ।
बाह्योद्यानानि रम्याणि क्रीडास्थानमथाययौ ॥ ९७ ॥
देवस्थानतटाकस्य निष्कुटे तटवर्तिनि ।
कन्यापरिजनस्त्रीणां ददर्श वितिक्रियाः ॥ ९८ ॥
कन्दुकेन त्रिभिश्चारैः करणैरपि षड्विधैः ।
चित्रदुष्करमार्गेषु क्रीडन्तीरपराः स्त्रियः ॥ ९९ ॥
पाञ्चालिकादिकाः केलिपत्रच्छेद्यानि चापराः ।
दुर्वाचकानि कुर्वन्तीरष्टादशविधान्यपि ॥ १०० ॥
लिपिमेदांश्च 'सिन्ध्वादीन् काश्चिन्म्लेच्छाक्षराणि च ।
प्रहेलिकादिका वाचः पराश्च परिचिन्वतीः ॥ १०१ ॥
सङ्गीतगीतवादित्राण्यभ्यस्यन्तरिनेकशः ।
तस्मिन्नवन्तिसुन्दर्या ददर्श परिचारिकाः ॥ १०२ ॥
अवतीर्य रथात्तासामभिरामैः क्रियान्तरैः ।
विलासैर्विस्मितस्तस्मिन्नुद्याने निषसाद सः ॥ १०३ ॥
विचित्रपुष्पोपहारे निषण्णं दूष्यमण्डपे ।
बभाषे दयितोपान्ते कुमारं बालचन्द्रिका ॥ १०४ ॥
प्रबुद्धपद्मगन्धाढ्या वार्धिस्पर्धिजलर्धयः ।
देवस्थानतटाकस्य प्रेक्ष्यन्तां देव ! सम्पदः ॥ १०५ ॥
2 दीव्यन्मन्दोदकानीति प्रायो दिव्यसरांस्ययम् ।
अवन्तिपुरमाश्रित्य क्षितीश इव तिष्ठति ॥ १०६ ॥
1. सिद्धा. क.
2. निन्द. क. ग.