This page has not been fully proofread.

षष्ठः परिच्छेदः
 
तदनुज्ञाय रम्या सा राजपुत्रीति मे श्रुतिः ।
 
किं तथेति ब्रवाणं सा मणति स्म नृपात्मजम् ॥ ८३ ॥
 
ततोऽपि रमणीया सा न दृष्टा सृष्टिरीदृशी ।
ततस्तामादिशद् भर्ता तद्रूपालेख्यकर्मणि ॥ ८४ ॥
तथा न शक्यमित्युक्ते कुमारः कन्यकाकृतिम् ।
ज्ञास्यन् यज्ञवतीरूपं लिलेख फलके क्वचित् ॥ ८५ ॥
पुष्पोद्भवे चित्रं चित्रीयाविष्टचेतसि ।
 
दृष्ट्वा
 
स्मित्वा विस्मयमाना सा बभाषे बालचन्द्रिका । ८६ ॥
 
अशक्यारम्भपक्षे यन्मया रूपं निरूपितम् ।
तत्तथैवेदमापन्नमुत्कण्ठा त्वत्र मिद्यते ॥ ८७ ॥
 
आकर्ण्याकृतिसंवादं मत्वा यज्ञवतीति ताम् ।
कुनार: स्वैरमातस्थे तत्रेत्थं कथयानया ॥ ८८ ॥
अथ त्रिदिनापाये कुमारं बालचन्द्रिका ।
सचित्रफलकागत्य प्रियोपान्ते व्यजिज्ञपत् ॥ ८९ ॥
 
तदाकृत्य 'विसंवादं वेत्तुं तच्चित्रकं मया ।
निन्ये कन्यापुरं दृष्ट्वा व्यस्मेष्ट च सखीजनः ॥ ९० ॥
 
सविक्रि यं मृगाक्षी तन्निरीक्ष्य स्मरमन्थरम् ।
लिलेख तत्र तद्रूपं कुमारान्नैव भियते ॥ ११ ॥
 
इत्यर्पितं निरूप्यैतद्विस्मयस्तिमितेक्षणः ।
पुष्पोद्भवः सुहृद्रूपान्न विवेद तदा मिदाम् ॥ ९२ ॥
 
राजपुत्रोऽपि मन्ये सा स्मरत्येवान्यजन्मनः ।
अन्यथा कथमित्थं मत्रपसिद्धिरित स्वयम् ॥ ९३ ॥
 
चिन्तयित्वा चिरं भूयः सुहृदा सह तद्गृहे ।
 
नीत्वा दिनं दिक्षुस्तां निनाय क्षणदामपि ॥ ९४ ॥
 
त्या क.
 
2. श्रमं. क.
 
1.
 
9
 
६५