This page has not been fully proofread.

६४
 
1.
 
अवन्तिसुन्दरीकथासारे
 
तस्मिन् देवतया ध्वस्ते स्वजनो विक्रियेत वा ।
तथेति च ततः पित्रा नीतायां त्वयि तद्गृहम् ॥ ७१ ॥
 
स्त्रीभूत्वैनं दुरात्मानं हनिष्यामि रहस्यहम् ।
इत्यभ्युपगमय्यैनां सख्या च समगंस्यहम् ॥ ७२ ॥
 
सा मयोक्तं तथा चक्रे मदनार्तः स दुर्मतिः ।
अन्वबध्नात् प्रियां पित्रा नीता तद्गृहमेव सा ॥ ७३ ॥
 
तत्सखी नाम भूत्वाहं नारीनैपथ्यकर्मणा ।
अभ्यन्तरं प्रविश्यैनं मर्माघातैरमारयम् ॥ ७४ ॥
 
स दैवतहतः पापः कन्यादूषक इत्यलम् ।
ख्याते जगति सौहार्दात् कन्यां मह्यमदात् पिता ॥ ७५ ॥
 
इत्यानुषङ्गिकं प्राप्य त्वदन्वेषणकारणम् ।
उद्यतस्यास्य लब्धं मे देवदर्शनदौहृदम् ॥ ७३ ॥
 
इत्थं निशम्य दिष्ट्येमौ दृष्टौ नः पितराविति ।
कुमारे कथयत्येनं परीयुर्गुरवश्च ते ॥ ७७ ॥
 
यथार्हमभिवन्द्याथ वशुरौ पितरावपि ।
कुमारः सह तैः प्रीतः स्यन्दनेनाविशत् पुरीम् ॥ ७८ ॥
स तां सतां जन्मभूमिं सम्पदां सम्पदास्पदम् ।
जगामोजयिनी मुर्व्या ललामश्रियमुज्ज्वलाम् ॥ ७९ ॥
तत्रोपरचितं रम्यं रत्नोद्भवगृहं गतः ।
पुरुषान् सुहृदोऽन्वेष्टुं विससर्ज नृपात्मजः ॥ ८० ॥
ततः कदाचिदाचख्यौ बालचन्द्रिकया सह ।
पुष्पोद्भवस्ते दासीयं संदिष्टा राजकन्यथा ॥ ८१ ॥
ममास्मिन्ना दरारब्धे भाविन्युदकदा निके ।
उत्सवे तव सान्निध्यं मर्त्रा सह भवत्विति ॥ ८२ ॥
 
2. दानके. ख.
 
रवा ख. ग.