This page has not been fully proofread.

षष्ठः परिच्छेदः
 
श्रूयतां गुहचामुण्डीचण्डीवाग्देवतात्मसु ।
अधीती वञ्जुलायंषु शकुनेषु चतुर्ध्वहम् ॥ ५८ ॥
 
मन्त्रवद्विरुप कान्तरे मिर्भाव्यार्थशंसिभिः ।
राजवाहनमन्ष्टुं परीक्ष्य प्रयतावहे ॥ ५९ ॥
इतिश्रुत्वा परीक्ष्यैतदुपश्रुत्याद्यनुक्रमात् ।
तदानुगुण्यसन्तुष्टः स्थितोऽहं सुहृदा सह ॥ ६० ॥
स्मरज्वरविनोदाय क्रीडानळिनकं गतः ।
अदूरे गिरमश्रौषं हा! हतास्मत्यिनन्तरम् ॥ ६१ ॥
त्वरितोपसृतः कान्तामद्राक्षं बालचन्द्रिकाम् ।
आक्षिपन् पाशमप्राक्षं किमित्युद्वन्धनोन्मुखीम् ॥ ६२ ॥
 
प्रत्यभिज्ञाय मां बाला निगृह्यामिदधेऽत्रपा ।
दयित ! श्रूयतामस्य व्यवसायस्य कारणम् ॥ ६३ ॥
इहाम्बुविहृतिव्याजान्महासेनसुता हृता ।
 
ततः प्रभृति कन्यामिर्जलक्रीडा न लभ्यते ॥ ६४ ॥
सख्यास्त्ववन्तिसुन्दर्याः क्रीडादर्शनदोहलम् ।
 
राज्ञे विज्ञापयिष्यन्ती स्वयमेवाहमभ्ययाम् ॥ ६५ ॥
 
चण्डवर्मानुजेनाहं दृष्टा दारुणवर्मणा ।
तस्याप्रियभिया तस्मै पितृभ्यां चास्मि दित्सिता ॥ ६६ ॥
 
तदहं मृत्यवे दातुमात्मानमियमारभे ।
इत्थं भूयोऽपि तत् कर्तुं प्रवृत्तामित्यभाणिषम् ॥ ६७ ॥
 
प्रिये ! मैवं दुरात्मासावुपायेन निहन्यताम् ।
त्वदन्तरङ्गभूना ते ब्रवीतु पितरौ सखी ॥ ६८ ॥
 
व्यक्तं देवतयाविष्टा कयाचिद् बालचन्द्रिका ।
सा किलातुल्य जातीयं हन्यादस्याः करस्पृशम् ॥ ६९ ॥
 
इत्यनेनैव मूढात्मा न चेदेष विरंस्यति ।
सैव ब्रवीतु कन्येयं नेया तद्गृहमन्यथा ॥ ७० ॥