This page has not been fully proofread.

६२
 
अवन्तिसुन्दरीकथासारे
 
तस्मिन् बिलगते देवे तमन्विष्य भ्रमन् वने ।
पित्रोर्वा पादयोर्वर्ते पुत्रः पुष्पोद्भवोऽप्यसौ ॥ ४६ ॥
 
इत्युदीर्य ततः पित्रोर्मज्जन् हर्षा श्रुनिझरे ।
तदानन्दमयं ताभ्यां सहानैषं दिनं वने ॥ ४७ ॥
 
अर्थसाध्यां तयोर्वृत्तिं मत्वार्थोपायचिन्तया ।
श्रीमण्डलमथालिख्य हुत्वा विजने वने ॥ ४८ ॥
 
प्रारोह प्रतिमाप्राणिक्षितिगन्धशिलादिभिः ।
आशङ्कितनिधौ देशे विविधैर्निधिलक्षणैः ॥ ४९ ॥
 
साधनैर्वर्तिकाभिश्च प्रत्यूहशमनैर्जपैः ।
यथाविध्यहमारभ्य प्रकृष्टं वसु दृष्टवान् ॥ ५० ॥
तावद्दस्युहते सार्थे साहाय्यं कुर्वतो मम ।
सार्थवाहेन तत्रासीत् सख्यं सवयसा सह ॥ ५१ ॥
भन्ने दस्युगणे 'भस्त्रास्वारोप्य प्रचुरं धनम् ।
सार्थेन सह संप्राप्ता विशालां नगरीं वयम् ॥ ५२ ॥
सार्थवाहगृहं प्राप्तेष्वस्मासु सुहृदः पिता ।
प्रागेव श्रुतवृत्तान्तः पुत्रवन्मामपूजयत् ॥ ५३ ॥
 
अस्मत्पितृप्रणामाय स्वसुतां बालचन्द्रिकाम् ।
आजुहाव ततः कृत्लं ज्योत्स्वामयभूद् गृहम् ॥ ५४ ॥
 
लावण्याम्बुमयी गात्रे काळकूटमयी दृशोः ।
लीलामयी पदन्यासे सा कन्या समदृश्यत ॥ ५५ ॥
तत्रस्थानां च सोत्प्राशं निपेतुर्बहुशो दृशः ।
तस्यां मयि च सारूप्यात् कुसुमेषोरिवेषवः ॥ ५६ ॥
तस्यां गतायामेकान्ते सार्थवाहः स मे सखा ।
अवोचन्मां तु विज्ञाय त्वदन्वेषणतत्परम् ॥ ५७ ॥
 
1. गन्त्री वा क.