This page has not been fully proofread.

2
 
अवन्तिसुन्दरी कथासारे
 
पद्मोद्भवस्य नामाहं पुत्रो भूत्वा वणिक्पतेः ।
 
समुद्रयायी नष्टायां नावि द्वीपान्तरं गतः ॥ २२ ॥
तत्रै नामुपलभ्यान्यजन्मनि प्रिययामु'या ।
रममाणश्चिरायास्या वसामि स्म पितुर्गृहे ॥ २३ ॥
 
श्रुत्वा पुष्पपुरवात तत्रागन्तोः कुतश्चन ।
उदारां नावमारुह्य प्रायां बन्धुदिक्षया ॥ २४ ॥
 
घोरमारुतमझायां मनायां नावि नाविकैः ।
 
दुर्दिनामित दिग्भागैर्म (गे म ? ) नं मनोऽस्मि चार्णवे ॥ २५ ॥
 
अनया च सद्दापन्नसत्वया मातरं लिमाम् ।
तं पोतलवमालम्ब्य प्लवमानामलक्षयम् ॥ २६ ॥
अमूभ्यां लहरीवेगाद् दूरीभूतान्तरेऽचिरात् ।
आलिलम्बिषमाणे मय्यतीतं दृष्टिगोचरम् ॥ २७ ॥
कं न निःस्त्रेहयत्याशा यतोऽहं तदवस्थया ।
वियुक्तोऽप्यनया देहं नाजहां जीवनाशया ॥ २८ ॥
 
मया तु लवमानेन मत्स्यपृष्ठाधिरोहिणा ।
दैवाद् द्वीपान्तरं गत्वा तस्मिन्ने काकिनोषितम् ॥ २९ ॥
 
अनीये नाविकेन स्वं पोतमारोप्य केनचित् ।
बालिद्वीपं ततः सर्वामुर्वीमन्विष्टवानिमाम् ॥ ३० ॥
शरदः षोडशान्विष्य ग्रामं ग्रामं वनं वनम् ।
पुरं पुरं च नैराश्याद् भृगौ देहमपातयम् ॥ ३१ ॥
रक्षितोऽस्मि त्वया सेयं दृष्टा गर्भस्य का कथा ।
इत्याकुलोऽहमित्युक्ते जगाद जरती च सा ॥ ३२ ॥
वत्स! मददुहितेयं त्वद्विरहेण जहात्यसून् ।
कथमप्यर्णवोत्तीर्णा प्रासूत तनयं वने ॥ ३३ ॥
 
3. ते. ख.
 
1.
 
भद्रो ख. ग.
 
2. न. क.