This page has not been fully proofread.

षष्ठः परिच्छेदः
 
भद्र ! कस्तव निर्वेदो यः प्राणव्ययकारणम् ।
इत्युक्तः स तु सस्नेहं मामालोक्येदमभ्यधात् ॥ १० ॥
 
कृतं तात ! न साध्वेतद् दग्धदेहस्य रक्षणम् ।
मयापि श्रुतिशास्त्रादौ कियानपि कृतः श्रमः ॥ ११ ॥
 
किं तेनापजहारकं दयिताविरहज्वरः ।
तदहो ! बलवानेष स्नेहः किं न करोत्यसौ ॥ १२ ॥
 
तथा हीन्दुमतीहे तोरजं प्राणैर्व्ययू युजत् ।
प्रमद्वरायै रुरुणाप्यायुषोऽर्धमदापयत् ॥ १३ ॥
 
इत्थं सर्वामिभाविन्या स्त्रेहशृङ्खलयानया ।
कृशीकृताः कियन्तो वै महान्तो मयि का कथा ॥ १४ ॥
 
कोऽस्य दुश्चरितं वक्तुं शक्तः कल्पशतैरपि ।
हस्तग्राह्याण्यसत्यस्मिन् प्रायो मुक्तिफलान्यपि ॥ १५ ॥
 
इत्युद्वेगवचः श्रुत्वा महतीयमहो! व्यथा ।
 
कस्य हेतोरपि त्वस्मिन् प्रतीतिः पितरीव मे ॥ १६ ॥
 
मय्येवं चिन्तयत्येका जरती पुर एव नौ ।
क्रोशन्ती चरणाभ्याशं गत्वा सत्वरमब्रवीत् ॥ १७ ॥
 
परित्रायध्वमत्रैषा तरुणी बहुविला ।
 
सुखोचिता चितारूढेत्याकर्ण्याभ्यपताव ताम् ॥ १८ ॥
तथावस्थां चिताकूटादाहृत्य शिशिरे क्वचित् ।
चिरं निरूप्य सैवेयं सुव्रतेत्यत्रवीत् स ताम् ॥ १९ ॥
अथोत्तस्थौ तयोस्तस्मिन्नतस्तदवस्थयोः ।
विरहानलमुद्वेलः प्रसह्य प्रीतिसागरः ॥ २० ॥
 
स संभ्रमाते सन्तापे शान्ते मामित्यभाषत ।
भद्र ! भद्रः प्रयासस्ते फलितः श्रूयतां कथा ॥ २१ ॥
 
1.
 
णाम् ख. ग.
 
५९