This page has not been fully proofread.

५८
 
अवन्तिसुन्दरीकथासारे
 
अथापृच्छय प्रीत्या परवति गते तत्र मिथुने
पृथग्भूय प्रायादुदधिसदृशो दैत्यविवरात् ।
कुमार: श्रीतात्मा जगति जनितानन्दमुदयी
 
चरन् मित्रान्वेषी दिनमिव शशी मालवपुरीम् ॥ १६१ ॥
॥ इत्यवन्तिसुन्दरीकथासारे पञ्चमः परिच्छेदः ॥
 
॥ अथ षष्ठः परिच्छेदः ॥
 
अथासौ पथि गच्छन्तं पुरुषं नगराइ बहिः ।
अद्राक्षीत् संनिकृष्यासौ मित्रं पुष्पोद्भवोऽभवत् ॥ १ ॥
न जहर्ष तथोदन्वानिन्दौ तद्दर्शने यथा ।
कुमार: परिरभ्यैनं पप्रच्छ सुहृदां गतिम् ॥ २ ॥
ततो बद्धाञ्जलिः सर्वानुक्त्वा कुशलिनः सखीन् ।
स कथामित्थमारेभे विविक्ते वक्तुमात्मनः ॥ ३ ॥
देव ! त्वय्यनिमित्तेन प्रलीने दीनमानसाः ।
मत्वा बिलगतं कृत्वा तद्द्वारे देवरक्षितम् ॥ ४ ॥
यथाप्रवे शं निर्याणं नैव स्याद् बिलवासिनाम् ।
इत्यालोच्य वयं सर्वे प्राद्रवाम दिशो दश ॥ ५ ॥
संवत्सरान्ते चम्पायां सङ्गमः समयश्च नः ।
सोऽप्यहं विन्ध्यशैलस्य पश्चिमं भागमभ्यगाम् ॥ ६ ॥
तत्रैकं पुरुषं वप्रात् पतन्तं पश्यतो मम ।
आसीन्मनसि निर्वेदादू भाग्यं प्राणमुचामुना ॥ ७ ॥
शक्यं गगन एवैनं गृहीत्वा परिरक्षितुम् ।
शोकहेतुं ततो हर्तुं यावत्सामर्थ्यमुत्सद्दे ॥ ८ ॥
इत्याकलय्य सद्यस्तं दोर्म्यामालिङ्गय धारयन् ।
तालवृन्तानिलाम्भोमिर्जातप्राणममाणिषम् ॥ ९ ॥
 
1.
 
दे. क.