This page has not been fully proofread.

अवन्तिसुन्दरीकथासारे
 
जहार चन्द्रस्तत्कायं सखायं च कपिञ्जलम् ।
मर्त्यो भवेति शप्तारं शशापेन्दुरपि क्रुधा ॥ १३८ ॥
दुर्गेषु प्रभ्रमेत्युक्तश्चन्द्रापीडात्मना स्थितम् ।
कपिञ्जलस्तमेवास्मिन्नश्वो भूत्वानुवर्तते ॥ १३९ ॥
वैशम्पायन इत्यस्मिन् भूत्वा चित्तभुवैव सः ।
पुण्डरीको हतः शप्ता वृथा चेयं तपस्विनी ॥ १४० ॥
तद्भवन्तः प्रतीक्षन्तां कञ्चित्कालमिति ब्रुवन् ।
तिरोऽभून्नारदस्तेऽमी शोकव्याकुलमासते ॥ १४१ ॥
स वैशम्पायनः पश्चात् तिरची जातिमाश्रितः ।
महाश्वेतापि मातङ्गीं प्राप्ता जातिमनुत्तमाम् ॥ १४२ ॥
इत्युक्त्वा स्मृतजातिं मां निनीषुः शिष्यमभ्यधात् ।
सोऽयं चण्डालकन्यायै दीयतामभिधीयताम् ॥ १४३ ॥
 
स्मरायं ते महाश्वेते ! मनोरथशतार्थितः ।
सोऽयं मालवराजाय शूद्रकाय निवेद्यताम् ॥ १४४ ॥
तत्रामीष्टिर्भवित्री वां स राजा नन्दिकेश्वरः ।
भवानीशापतो जातः स्त्रीभिश्चतसृभिः सह ॥ १४५ ॥
जिगीषाग्राहमुत्सृज्य त्रिवर्गेष्वपराङ्मुखः ।
स चन्द्रापीडचरित श्रवणेन भविष्यति ॥ १४६ ॥
इत्युक्ते तेन तां नीतस्तया चापि नृपान्तिकम् ।
तत्राकथयमात्मीयां कथां तदनुयोगतः ॥ १४७ ॥
 
ततः शशिकरानीतं स्वशरीरमशिश्रयम् ।
महाश्वेताशरीरं च रक्षितं सोमरश्मिभिः ॥ १४ ॥
अवतारितमारूढा तं देहमपहाय सा ।
तावावां मुक्तसंक्लेशौ त्वामेव द्रष्टुमागतौ ॥ १४९ ॥
इत्याकर्ण्य गते तूर्ण तस्मिन् द्वन्द्वेऽभिवन्दितुम् ।
मुकुन्दचरणद्वन्द्व प्राप्तां मामित्युवाच सः ॥ १५० ॥