This page has not been fully proofread.

पञ्चमः परिच्छेदः
 
परेद्यः शिबिरं गत्वा सत्वरं पितुराज्ञया ।
 
ताम्बूलदायिकां दत्त्वा कादम्बयै गृहं ययौ ॥ १२६ ॥
 
ततः कदाचिदापेदे कादम्बर्या: समीपतः ।
पत्रलेखाथ सैकान्ते तदुवृत्तान्तमवर्णयत् ॥ १२७ ॥
 
अभूतपूर्वमन्यत्र प्रेयस्याः स्मरविक्रियाम् ।
आकर्ण्य तां स्मरन् कान्तां मुहुर्मोहमगादसौ ॥ १२८ ॥
 
कटकक्षोमकर्तारं श्रुत्वा हेमजटेश्वरम् ।
कुमारे' गन्तुमारब्धे पपात छुपथाद् रथः ॥ १२९ ॥
 
श्रुत्वा चित्ररथप्रेष्यात् कादम्बर्याः स्वयंवरम् ।
तदेव रथमारुह्य प्रहृष्टैर्गुरुभिः सह ॥ १३० ॥
स्कन्धावारं ततो गत्वा चन्द्रापीड: ससैनिकः ।
सवैशम्पायनस्तूर्ण गन्धर्वनगरं ययौ ॥ १३१ ॥
 
ततस्तस्योरसि स्नेहात् परिहृत्य सुरासुरान् ।
चक्रे चैत्ररथी तत्र लाध्यां सन्तानजस्रजम् ॥ १३२ ॥
 
स्वयंवरकृते युद्धे श्रुत्वा मन्त्रिसुतं हतम् ।
बद्धरागा महाश्वेता चुक्रोश भृशदुःखिता ॥ १३३ ॥
 
अपापामसतीबुध्या शशाप कुपितः पिता ।
चण्डालयोनिं गच्छेति सद्यः सा वपतन्मृता ॥ १३४ ॥
स वैशम्पायनस्तस्या दर्शनात् पूर्वजन्मनः ।
स्मरन्निवृत्तः समरात्तां निशम्याजहादसून् ॥ १३५ ॥
 
चन्द्रापीडेन देव्या च कादम्बर्या तथापरैः ।
प्रायोपवेशमारब्धं वारयन्नारदोऽब्रवीत् ॥ १३६ ॥
 
श्रूयतां पुण्डरीकोऽसौ ध्वस्तः कुसुमधन्वना ।
 
रूपाभिमानी मात्सर्यान्महाश्वेतानिमित्ततः ॥ १३७ ॥
 
1. 'ह'. ग.
 
५५
 
15