This page has not been fully proofread.

५४
 
अवन्तिसुन्दरी कथासारे
 
नीत्वा मुनिकुमारेण स्वाश्रमं विश्रमीकृतम् ।
जाबा लिर्मुनिरालोक्य स्मित्वा मामभ्यभाषत ॥ ११४ ॥
 
अवन्तिष्वभवद् भूपस्तारापीड इति श्रुतः ।
 
पुत्रः क्षत्रकुलापीडश्चन्द्रापीडस्ततोऽभवत् ॥ ११५ ॥
मन्त्रिणः शुकनासस्य वैशम्पायन इत्यभूत् ।
 
तौ बहिर्नगरं गत्वा विद्यापारमपश्यताम् ॥ ११६ ॥
विद्यान्ते षोडशे वर्षे चन्द्रापीडं नराधिपः ।
आनीयेन्द्रायुधं दत्त्वा यौवराज्येऽभ्यषेचयत् ॥ ११७॥
दिग्जयाय ततो गत्वा हिमवत्पार्श्ववर्तिनि ।
सवैशम्पायने सैन्ये किन्नरद्वयमन्वगात् ॥ ११८ ॥
 
इन्द्रायुधजवाद दूरं गत्वाच्छोदसरस्तटे ।
गीतानुसारी गत्वासावद्राक्षीदिव्ययोषितम् ॥ ११९ ॥
तयोपचरितः सर्व व्यावर्ण्य चरितं निजम् ।
तद्वृत्तान्तमथापृच्छन्निश्वस्याभिदधे च सा ॥ १२० ॥
 
महाश्वेतेति नाम्नाहं गन्धर्वाधिपतेः सुता ।
 
सा त्वहं पुण्डरीका भाववत्यभवं द्विजे ॥ १२१ ॥
 
चन्द्रोदये सुदुवीरं स्मरसागरमुद्वहन् ।
जहाँ प्राणान् घृणाहीना विलपामि' स्म केवलम् ॥ १२२ ॥
 
पुरुषस्तं जहारैकश्चन्द्र मण्डलनिर्गतः ।
 
वत्से ! मनोरथप्राप्तिर्भवितेत्यभिधाय माम् ॥ १२३ ॥
कपिञ्जलः सखा तस्य द्रुतमेव तमन्वयात् ।
अहं पुनरिहैवास इत्यास्रायत सा भृशम् ॥ १२४ ॥
तामाश्वास्य तथा सार्धं गत्वा गन्धर्वकन्यकाम् ।
कादम्बरी ददर्शाथ प्रेमव्यक्तिरभूत्तयोः ॥ १२५ ॥
 
1. विललापास्मि. क.