This page has not been fully proofread.

पञ्चमः परिच्छेदः
 
चिरदृष्टं वनं दृष्ट्वा प्रिये यज्ञवतीत्यसौ ।
तव स्मृत्वा मुहुर्मूर्च्छा गच्छन्नी तस्तवान्तिकम् ॥ १०२ ।॥
 
इत्युक्त्वा क्षणनिष्पन्द मन्देतरमनोरथम् ।
आनन्दाग्रमिवारूढं तद् द्वन्द्वं समजीगमत् ॥ १०३ ॥
 
गणरात्रात्यये दैत्यैः श्रुत्वा यज्ञवतीं हृताम् ।
साम्बः प्राग्ज्योतिषं जेतुं प्रवृत्तः क्रुद्धया धिया ॥ १०४ ॥
 
नारदस्य गिरा गत्वा द्वारकां गुरुभिः सह ।
जित्वा दैत्यपतौ स्वर्ग जेतुं यातेऽहरत् प्रियाम् ॥ १०५ ॥
 
अमर्षज्वलिते भौमे युधि स्मर्तव्यतां गते ।
स्नुषासखीति नीताहं पुरेऽस्मिन्नसुरद्विषा ॥ १०६ ॥
 
महाश्वेतादयः सख्यो गन्धर्वतनया अपि ।
ममासन् सा त्वहं जातु प्रणन्तुं पङ्कजेक्षणम् ॥ १०७ ॥
 
प्रयान्ती तरुणं कञ्चित् पतन्तं मकरालये ।
दृष्ट्वादिष्टबलाद् मावं तस्मिन्नकरवं पुरा ॥ १०८ ॥
 
अश्वरूपं तमालोक्य व्यथमाना रथाङ्गिणा ।
आदिष्टा स्पष्टमेवायं भर्ता ते भवितेत्यहम् ॥ १०९ ॥
कान्तेन सह यान्तीं मामेकदा शोकविह्वलाम् ।
आह्लादयन्महाश्वेता निजवृत्तान्तविस्तरैः ॥ ११० ॥
तयोक्तः स युवा सर्वं निवेदयितुमात्मनः ।
चरितं कथयांचक्रे ततः कादम्बरीकथाम् ॥ १११ ॥
 
अस्मिन् विन्ध्यवने वृद्धशाल्मलिद्रुमवर्तिनोः ।
 
उत्पन्नः शुकदम्पत्येोरेक एवास्मि शाबकः ॥ ११२ ॥
 
' बाल्ये मृता सवित्री मे मत्पोषणपरायणे ।
किरातहते ताते परासावपतं द्रुमात् ॥ ११३ ॥
 
समास्थिता क.