This page has not been fully proofread.

५२
 
अवन्तिसुन्दरीकथासारे
 
होमं मातङ्गकः कृत्वा रक्षायां राजवाहनम् ।
कल्पोक्तेन विधानेन प्रावर्तत निरर्गलः ॥ ८९ ॥
न शक्ष्यन्ति न सन्देहः प्रत्यूहा राजवाहने ।
इदं तु चित्रं तत्रापि प्रवृत्ता विहता अपि ॥ १० ॥
हुते शरीरे केयूरी कृपाणी मकुटी क्षणात् ।
बभूव स्यन्दनीभूते निषण्णः कृष्णवर्त्मनि ॥ ९१ ॥
प्रभाप्रवाहे मज्जन्ती स्वलावण्याम्बुवर्षिणी ।
रमणीयतरा काचित् तरुणी प्रत्यदृश्यत ॥ ९२ ॥
सा तमग्निरथं हृष्टा निरीक्ष्य स्निग्धया हशा ।
स्वामिन्ननुगृहीतास्मीत्याचख्या राजवाहनम् ॥ ९३ ॥
तावन्तःपुरमानीय स्वर्गस्पर्धिसमृद्धिमत् ।
सम्भाव्य स्निग्धया वाचा दिव्ययोपिदभाषत ॥ ९४ ॥
 
मन्दाकिनीति नामास्मिन्नुत्पन्ना नमुचेरहम् ।
मृते पितरि पुत्रीव नरकेणास्मि वर्धिता ॥ ९५ ॥
कन्या यज्ञवतीत्यन्या तस्यासुरपतेरभूत् ।
आवयोरपराप्यासीत् परं मित्रं तिलोत्तमा ॥ ९६ ॥
ततो यज्ञवती जातु व्यञ्जितस्मरसंज्वरा ।
किमप्युदमनायिष्ट स्नेहादस्मभ्यमभ्यधात् ॥ ९७ ॥
धर्मदेव इति ख्यातः पुरासीत् पुरुषोत्तमात् ।
तत्पत्नीपदधन्यं मे जीवनं पूर्वजन्मनि ॥ ९८ ॥
 
प्रिये गुरुनियोगेन प्रोषिते बदरीवने ।
दवदग्धा तदेवाद्य स्मराम्यस्मिन् भवान्तरे ॥ ९९ ॥
इत्युन्मनसि तन्वङ्गयां कदाचित्तत्समाकृतिम् ।
कुमारं कञ्चिदाहृत्य व्याजहार तिलोत्तमा ॥ १०० ॥
जाम्बवत्यामसौ जातः साम्ब इत्यम्बुजेक्षणात् ।
मनोरथानां भूमिस्ते मुनिरक्षार्थमागतः ॥ १०१ ॥