This page has not been fully proofread.

पञ्चमः परिच्छेदः
 
ततस्त्रिस्रोतसः शापान्मानुष्यकमुपेयुषा ।
गणेशेन सह प्राप्तो महोग्रश्च मनुष्यताम् ॥ ७६ ॥
 
अपहारोपहाराख्यौ प्रहारस्य सुतौ च तौ ।
योऽसावच्युतकः सोऽभूद्धनमित्राख्यया वणिक् ॥ ७७ ॥
 
उत्पन्नः सोऽपि नित्योग्रः कर्मवासनया पुनः ।
चण्डकृष्ण इति व्यावस्तं जघान रिपुञ्जयः ॥ ७८ ॥
 
नरकान् विविधाकाराननुभूय सहस्रशः ।
जातो विप्रकुलेषु त्वं प्राप्तश्च गतिमुत्तमाम् ॥ ७९ ॥
ब्राह्मणस्य कृते प्राणैस्त्वं चेन्नैवममोक्ष्यथाः ।
पुरेव निरयान् भूयोऽप्यविषह्यानमोक्ष्यथाः ॥ ८० ॥
लौकिकानां हिताय त्वं प्रविश स्वं कलेबरम् ।
इत्युक्तमात्रे मत्क्षेत्रे तत्रैवोन्मीलितं मया ॥ ८१ ॥
 
वन्धुभिः स्वगृहं नीत्वा विहितव्रणरोपणः ।
स्वस्तिमान् ब्राह्मणात्तस्मादश्रौषं च श्रुतिस्मृतीः ॥ ८२ ॥
अमानुषत्वकामं मां साक्षाद्भूयायुगेक्षणः ।
अब्रवीत् सोमशापात्त्वं क्लान्तो वत्स ! कपिञ्जल ॥ ८३ ॥
 
तदद्य नमुचेर्लोकं लभस्व बिलवर्त्मना ।
 
विन्ध्य पार्श्वगतस्तस्मिन् सहायं च तवाप्स्यसि ॥ ८४ ॥
इत्याकर्ण्य कुमारास्ते तस्मिन् विस्मितमानसाः ।
अवसन् दिवसान् कांश्चित् प्रीत्या तदनुरोधतः ॥ ८५ ॥
ततो मातङ्गकः सुप्तान् मुक्त्वा भक्तानुकम्पिनम् ।
राजवाहनमादाय प्रविवेश रसातलम् ॥ ८६ ॥
बिलकल्पोपदिष्टेन प्रविष्टौ यन्त्रवर्त्मना ।
रम्यं पुरमलोकेतां ताम्रप्राकारगोपुरम् ॥ ८७ ॥
स्नात्वा सरस्युपस्पृश्य प्रविश्य नगराङ्गणे ।
जातवेदसमुत्पाद्य स्थापितैः समिदादिभिः ॥ ८८ ॥