This page has not been fully proofread.

५०
 
अवन्तिसुन्दरीकथासारे
 
तथेत्यच्युतकेनोक्ते निवृत्तोऽस्मीत्यनन्तरम् ।
स मयोक्तं ततः कृत्वा नृपायापि न्यवीविदत् ॥ ६३ ॥
 
विमनायितमालोक्य स्वदुर्नय धियेत्यसौ ।
 
पतिं मे नृपतिर्नक्तं विविक्ते हन्तुमाह्वयत् ॥ ६४ ॥
रात्रौ मा हन्तुमारब्धो राज्यलोभादसाविति ।
प्रख्याप्य राज्ञा पापायाः पति विनिपातितः ॥ ६५ ॥
 
तस्मादच्युतको मामप्यनैषीत् पितुरन्तिकम् ।
तस्मादपि परिभ्रष्टा ततस्तस्करसम्भ्रमे ॥ ६६ ॥
 
ध्वस्तः किं तस्करैरित्थं भ्राम्यन्ती पुत्रचिन्तया ।
उद्धभती मृतोऽसावित्यदर्श तरुमूर्ध्नि तम् ॥ ६७ ॥
सोऽब्रवीदम्ब । दस्युर्मा बलादादाय निर्गतः ।
कृष्णसर्पेण दष्टस्तद्वीत्या रूढोऽस्मि शाखिनम् ॥ ६८ ॥
इत्याकर्ण्य पुनर्जातं पुत्रमादाय तद्गृहम् ।
गत्वा दस्युहते ताते शोकार्णवमगाहिषि ॥ ६९ ॥
नष्टे ज्येष्ठे सुते पत्यौ हते पितरि मारिते ।
महोग्रमात्रमासीन्मे जीवितस्यावलम्बनम् ॥ ७० ॥
तरुणीभूतमद्यैनं परिणाय्यामुना पथि ।
स्नुषया च सहायान्ती भवद्भिद्र ! विद्रुता ॥ ७१ ॥
इति श्रुत्वा स एवाहं नित्योग्रस्तनयस्तव ।
इत्युदखलिरह्लादी पुलिन्दस्तामवन्दत ॥ ७२ ॥
ततो मातरमादाय भ्रात्रा च शबरैः सह ।
गत्वा जालन्धरं रात्रौ जघान पितृघातिनम् ॥ ७३ ॥
स्वजनैः सह मात्रा च तत्रानन्तरभूपतेः ।
महोग्रं मन्त्रिणं कृत्वा जगाम वनमेव सः ॥ ७४ ॥
 
महोग्रः स गतो भक्त्या हस्तिवक्त्रस लोकताम् ।
दीर्घदर्शी विदेद्वेषु प्रहाराख्योऽभवन्नृपः ॥ ७५ ॥