This page has not been fully proofread.

पञ्चमः परिच्छेद:
 
दृष्ट्वा विस्मयमानस्तैः स्मर्यमाणसुदुःसहैः ।
नित्योति कथं प्राह प्रभुरित्यहमब्रवम् ॥ ५० ॥
चित्रगुप्तस्तदाचख्यौ शबरेन्द्रस्य कस्यचित् ।
चौर्यलब्धः सुतः कश्चित् कोलाहलिक इत्यभूत् ॥ ५१ ॥
 
स मूर्खः पथिकान् निघ्नन् कदाचिद् विधवां स्त्रियम् ।
न्यरुणत् पुरुषं चैकं युवत्या च स्त्रिया सह ॥ ५२ ॥
 
हा दीर्घदर्शिन् ! हा पुत्र ! नित्योति मुहुर्मुहुः ।
आक्रन्दन्तीं पुळिन्दस्तां भद्रे ! कासीति सोऽब्रवीत् ॥ ५३ ॥
 
सोचे मन्त्री विदर्भाणां दीर्घदर्शीति मे पतिः ।
स नित्योग्रमहोग्रावित्यात्मजौ मय्यजीजनत् ॥ ५४ ॥
श्रुतं कार्तान्तिकाद् राज्ञा मत्पुत्रो राज्यभागिति ।
बाल एव स नित्योग्रो राजा चौर्यापहारितः ॥ ५५ ॥
 
तद्भीत्या मातुलावासं कनीयानप्यनीयत ।
ततः कदाचिन्मे भर्ता रहसीदमुदाहरत् ॥ ५६ ॥
अद्येहाच्युतकस्याहं भागिनेयस्य नो गृहम् ।
निमित्तेन निशि प्राप्तः श्रुतवान् मन्दिरः ॥ ५७ ॥
 
राज्ञा जालंधरेणाहमाहूयाभिहितोऽधुना ।
मातुलस्य तवापत्यं राजा किल भविष्यति ॥ ५८ ॥
पिता चैनं प्रसह्यास्मान् विवर्धपति दुर्मतिः ।
असंशयमसौ वध्यस्त्वया मत्प्रियकारिणा ॥ ५९ ॥
निशम्यैतन्नृपादिष्टं क्रियतामविलम्बितम् ।
इति स्वप्रियया प्रोक्ते क्रुद्धस्तामयमभ्यधात् ॥ ६० ॥
 
कर्तुं मातुलपुत्रेऽहं नैतत्साहसमुत्सहे ।
इत्यस्मिन्नन्तरे प्रीत्या. तस्यात्मानमदीदृशम् ॥ ६१ ॥
इत्थं प्रोचे कथं गत्वा कृत्वा पुस्तशिरः करे ।
तच्छिरश्छद्मना च्छित्त्वा प्रत्यागच्छ नृपान्तिकम् ॥ ६२ ॥
 
7
 
४९