This page has not been fully proofread.

४८
 
अवन्तिसुन्दरीकथासारे
 
सप्तच्छदस्तब क्रचामरधूननोऽयं
जातो मरुद घनसितं वियदातपत्रम् ।
हारप्रसादि सरिदम्बु सरोजलीलः
कालोऽयमुद्भवति नन्दितराजहंसः ॥ ३८ ॥
 
इत्यन्यानि च लब्ध्वा ते सुनिमित्तानि सर्वतः ।
वैखानसकुले निन्युर्दिनं नातिदवीयसि ॥ ३९ ॥
सुमतिप्रमुखास्तस्मिन्नमात्याः स्वसुतानपि ।
आत्माधिकार सम्बद्धैरुपदेशैरशिक्षयन् ॥ ४० ॥
कथमप्यनुगच्छन्तं निवर्त्य स्वजनं पुनः ।
शून्यं विन्ध्यवनोद्देशं जग्मुर्निर्झरिणीतटे ॥ ४१ ॥
तत्रैकस्मिन् समासीनं तरुमूलतले द्विजम् ।
व्रणकर्कशकायं ते दहशुश्वीरवाससम् ॥ ४२ ॥
उपसृत्य समासीनैरभिनन्दितसत्क्रियैः
पृष्टस्तैरयमात्मानं व्याहर्तुमुपचक्रमे ॥ ४३ ॥
 
अनास्वादितवेदेषु व्याधपिण्डोपजीविषु ।
मातङ्ग इति तन्नामा जातो विप्रकुलेष्वहम् ॥ ४४ ॥
स कदाचिद् धनुष्पाणिर्वने वनचरः सह ।
चरन् ब्राह्मणमायान्तं वर्षीयांसमलक्षयम् ॥ ४५ ॥
जरत्कर्पटलोभेन प्रतिषिद्धाः प्रसह्य माम् ।
जरापरवशे तस्मिन् प्रजह्रुस्ते जनङ्गमाः ॥ ४६ ॥
 
तेषां त्रिचतुरान् हत्वा दयया तममोचयम् ।
शेषा मां तिलशः कृत्वा जग्मुस्तेऽपि किरातकाः ॥ ४७ ॥
 
मृतोऽहं प्रेत भर्तारं दृष्टवान् विष्टरे स्थितम् ।
 
स मा नित्योग्र ! पश्य त्वं नरकानित्यभाषत ॥ ४८ ॥
चित्रगुप्तस्तदाज्ञप्तः पद्मादीन् नरकान् बहून् ।
अदीशद् दुष्कृतिमिभक्तव्यान् मा विभागशः ॥ ४९ ॥