This page has not been fully proofread.

४६
 
अवन्ति सुन्दरी कथासारे
 
बडबा भवतेत्येष प्रतिशतश्च वज्रिणा ।
अश्वयोनौ पतिस्तासां भवानेव भवत्विति ॥ १३ ॥
ता एता बडवाः सोऽयं तुरगश्च मुनीश्वरः ।
राजवाहनवाहानां शापश्च प्रसवावधिः ॥ १४ ॥
ऐरावतसुतो हस्ती ' त्वत्प्रसादाद् भुवं गतः ।
मालवेन्द्राहवादूर्ध्वं वनेऽस्मिन् विहरत्यसौ ॥ १५ ॥
इत्यादिश्य कथामेतां जगाम स्वाश्रमं मुनिः ।
नृपश्च परया प्रीत्या गजाश्वबलमग्रहीत् ॥ १६ ॥
ततः सर्वे यथाकालं कृतोपनयनादयः ।
अवर्धन्त मृगेन्द्राणां किशोरा इव दारकाः ॥ १७ ॥
 
1.
 
तेभ्यः सर्वासु विद्यासु धनुर्वेदे कलासु च ।
 
विशिष्टः षोडशं वर्ष जगाहे राजवाहनः ॥ १८ ॥
 
आशाविजय कालोऽयं कुमारस्येति मन्त्रिणा ।
 
.
 
विज्ञापिते बलाद् राज्ञाप्यन्वज्ञायि' हराज्ञया ॥ १९ ॥
 
वामदेवः प्रयाणाय प्रणमन्तमनन्तरम् ।
 
उपहूयैवमेकान्ते राजवाहनमब्रवीत् ॥ २० ॥
 
कुमार ! ज्ञातवेधेषु त्वाइशेष्वनुशासनम् ।
 
श्रम एवापि तु स्नेहादू वाच्यमेव हितं वचः ॥ २१ ॥
 
रुध्यतामिन्द्रियग्रामः परग्रामस्ततस्त्वया ।
जीयतामरिषड्वर्ग प्रथमं तदनु द्विषः ॥ २२ ॥
 
सन्ध्यादिभिर्गुणैः षड्भिः शक्तिसिद्धयदयादिभिः ।
साध्यं विधिवदारब्धैः स्वामित्वं विजिगीषुणा २३ ॥
विशुद्धामात्यमित्रेण श्रुतिशास्त्रानुरोधिना ।
 
अद्वितीयातपत्रेयं त्वत्पित्रा रक्षिता क्षितिः ॥ २४ ॥
 
यत्प्रभावाद्. ग.
 
2. पि. म..