2023-02-26 04:07:57 by ambuda-bot
This page has not been fully proofread.
अवन्तिसुन्दरीकथासारे
बहामिषतया तस्मिन्नपहाय शिशुं ययौ ।
सपुत्रा च पिशाची सा विभाता च विभावरी ॥ २२० ॥
मैं
इयं तारावली तत्र प्रयान्ती शिशुमग्रहीत् ।
अस्याः पुत्र इवामुष्मिन् भावहेतुर्निशम्यताम् ॥ २२१ ॥
शौनकः शूद्रको भूत्वा कामपालोऽद्य वर्तते ।
बन्धुमत्या विनयवत्यभिन्ना कान्तिमत्यपि ॥ २२२ ॥
यज्ञदा वेदिमत्येव सोमदेवी च वर्तते ।
हंसावली शूरसेना सैवान्ते च सुलोचना ॥ २२३ ॥
धात्रेयिका नन्दिनिकेत्यनुरक्ता च शौनकम् ।
मध्ये रङ्गपताकासीदिन्द्रसेना च जायते ॥ २२४ ॥
या सा गोपवधूः पूर्व शौनकेनाग्निसंस्कृता ।
आर्यदास्यपि सैवासीद् भूयस्तारावली च सा ॥ २२५ ॥
अस्यामेवार्यदासीत्वे जातः सोऽयं कुमारकः ।
शूद्रकादद्रिसाराख्यः पुत्र स्खे हस्तु तत्कृतः ॥ २२६ ॥
अर्थपाल इति व्यक्तं मन्नामैव भवत्वयम् ।
वर्षयित्री वसुमती तत्तस्यै दीयतामसौ ॥ २२७ ॥
इत्यादिष्टा घनेशेन प्रत्यानेतुमिहागता ।
इत्यर्पयित्वा हस्ते मे तत्रैवान्तरियाय सा ॥ २२८ ॥
मुदितवान् नृपतिः स निशम्य गा
मुदितवागमृतैः सह मन्त्रिभिः ।
अनयदूषित बुद्धिरिमां निशा-
मनयदूढमदः सुतवार्तया ॥ २२९ ॥
इति दशभिरमीभिः प्रत्यहं वर्धमानैः
शशिनमिव विशेषैः कान्तिमद्भिः कलानाम् ।
ललितगुणविशेषं वीक्षमाणः कुमारान्
नृपतिरवजगाहे मध्यमानन्दसिन्धै। ॥ २३० ॥
॥ इत्यवन्तिसुन्दरीकथासारे चतुर्थः परिच्छेदः ॥