This page has not been fully proofread.

चतुर्थ: परिच्छेदः
 
स्मरमन्थरया बुद्धया रचितानि नतध्रुवा ।
 
अनङ्गपत्रे तत्रासन् मधुराण्यक्षराण्यपि ॥ २०८ ॥
 
मुग्धा पञ्जरहंसी चन्द्रं निर्वर्ण्य पुण्डरीकधिया ।
स्फुरितानि तानि तान्यप्यभिलाषबलात्कृता कुरुते " ॥ २०९ ॥
 
अमन्दानन्दसन्दोह
मनुभूयेति वाङ्मयम् ।
 
मृदु वल्कलमालूय प्रतिलेखमथाकरोत् ॥ २१० ॥
कान्तिमत्यपि चिन्ताब्धेस्तरणोपायदर्शिनीम् ।
सखीव प्रियसंदिष्टां तस्मिन्नार्यामवाचवत् ॥ २११ ॥
 
" यद्यभिलपसि द्विजवरमवैहि तं राजहंसि ! जलमध्ये ।
गतमेव चरणगोचरमचिरात् प्रतिमामुखेनापि " ॥ २१२ ॥
 
तद्गुणस्मरणेनास्याम पह्यज्वरकारिणी' ।
यदसौ नृपकन्यायामनार्य कृतमार्यया ॥ २१३ ॥
 
इन्द्रसेनाख्यया संख्या कृत्वा पुस्तस्मराकृतिम् ।
तत्सग्रहच्छलेना सावन्तःपुरमनीयत ॥ २१४ ॥
 
तत्राविदितनिर्वृत्तचत्रोचिनकरग्रहः ।
रममाणः स तास्तित्र उपये मे प्रियासखीः ॥ २१५ ॥
 
आपन्नसत्वा सा देवी प्रच्छन्नं सुषुत्रे सुतम् ।
रात्रौ पितृवनं नीत्वा त्यक्तः स शबरस्त्रिया ॥ २१६ ॥
 
क्षुषार्तया पिशाच्यैष भक्ष्यमाणः स्वसूनुना ।
रुद्धो मे प्रातराशोऽस्त्वित्युमयोः कलहे सति ॥ २१७ ॥
 
रक्षिदर्शन सम्भ्रान्त्या रहस्यं विवृतं तया ।
अन्तःपुरान्निबध्या सौ वध्यभूमिमनीयत ॥ २१८ ॥
 
तस्मिन् बन्धनमेवास्याच्छिन मारणसम्भ्रमे ।
ततो निघ्नत एवासौ निहत्य प्रययौ स्वयम् ॥ २१९ ॥
 
1. पल्लव क.
 
2. णा. ख.
 
3. गुप्त ख. ग.
 
४३