This page has not been fully proofread.

४२
 
अवन्तिसुन्दरीकथासारे
 
दृष्ट्वा विनयवत्येनं भर्तारं चोरचिह्नितम् ।
अमात्येन सखीपित्रा क्षणं मृत्योर्न्यवर्तयत् ॥ १९६ ॥
उपहारकृते रात्रौ पशुवन्मारितोऽप्यसौ ।
 
न जहौ जीवितं भूयः प्रेयस्या समगच्छत ॥ १९७ ॥
स तु मा तुल एवासीदास्ते यस्या गृहे प्रिया ।
तत्कन्यामपि तन्वङ्गीमुपयेमे स यज्ञदाम् ॥ १९८ ॥
मथुरेन्द्रदुहित्रासौ रमितः शूरसेनया ।
'वसन् मृत्युमुखप्रायानपायानयमन्त्रभूत् ॥ १९९ ॥
बहूनां विपशमन्ते विगृह्य स्वातिना सह ।
बालमित्रमह्त्वैनं जीवग्राहमजिग्रहत् ॥ २०० ॥
सुर्दियिताभिश्च प्रचितप्रेमभिः सह ।
3 शतं समाः क्षमामेकः शशास चतुरर्णवाम् ॥ २०१ ॥
ब्रह्मरक्षोनियुद्धेन मृत्वैक परमेश्वरः ।
 
धर्मपालस्य नामासीत् कामपालाख्यया सुतः ॥ २०२ ॥
स कदाचित् सखीमध्ये क्रीडन्तीं नृपकन्यकाम् ।
पश्यन् कान्तिमतीं नाम श्रान्तां कन्दुकलीलया ॥ २०३ ॥
अभिपन्नशरीरोऽभूद शरीरशर व्यताम् ।
 
अनुक्त्वा विकृतिं तस्य (स्त्वगोचरतया गिराम् ॥ २४ ॥
 
विक्रीणाना गुणांस्तस्य प्राणादिधनमात्मनः ।
 
मनोविनिमयं कृत्वा कन्या कन्यागृहं गता ॥ २०५ ॥
 
!
 
A
 
असुभ्योऽपि गरीयस्यः सोमदेवी सुलोचने ।
 
इन्द्रसेनेति तत्सख्यः स्मरवेगमगोपयन् ॥ २०६ ॥
 
कामपालः प्रियं दृष्ट्वा सखीभिश्चाभिनन्दितः ।
तया प्रहित मेकान्ते कामलेखमलक्षयत् ॥ २०७ ॥
 
लव. ख. ग.
 
1.
 
2. याव. ख
 
3. रममाणः क.
 
4.
 
ब...