This page has not been fully proofread.

चतुर्थः परिच्छेदः
 
स्वगृहे शाक्यभिक्षुण्या वञ्चयित्वा जिघांसितः ।
दुःस्वप्रबोधितस्तस्माद् विदिशाभिमुखो ययौ ॥ १८३ ॥
 
सुहृद्भिः सहितो भूत्वा बन्धनागारवर्तिनम् ।
बन्धुदत्तं ततो हृत्वा जगामोज्जयिनीं प्रति ॥ १८४ ॥
 
बन्धुदत्तगृहं गत्वा तस्मिन् भरतकन्यया ।
अनुरक्तः स रागिण्या रेमे रङ्गताकया ॥ १८५ ॥
ततो विनयवत्याख्यामुद्याने नृपकन्यकाम् ।
 
दृष्ट्वा
 
दृष्टिविषेणान्तः स्पष्टं दष्ट इवाभवत् ॥ १८६ ॥
 
कन्दर्पसर्पदष्टान्तर्दष्टा दर्वीकरेण च ।
सा तु शुद्रकसंस्पर्शेनोभयस्मादजीव्यत ॥ १८७ ॥
ततः कन्यापुरं गच्छन् रात्रौ हृच्छयमूर्च्छया ।
स्त्रैणाध्यक्षजनैः क्रुद्धैर्वध्योऽसावित्यबध्यत ॥ १८८ ॥
ततः कथञ्चिन्निर्मुक्तो मृत्युप्रायादपायतः ।
घात्रीमुखेन तां कन्यामपहृत्य ययौ पुरात् ॥ १८९ ॥
 
मार्गे माळवराजेन प्रसह्यापहृतां प्रियाम् ।
उपलभ्य तृषा तस्याः पानीयार्थी ययौं स्वयम् ॥ १९० ॥
 
विना विनयवत्यासौ गच्छन् कृच्छ्रमनीयत ।
वने वनचरत्रातः कारां चोरचमूपतेः ॥ १९१ ॥
तत्कन्ययानुभूयासावार्यदास्यभिधानया ।
अमुच्यत तया च्छन्नं बन्धनाद् बद्धरागया ॥ १९२ ॥
ततः प्रियां प्रति भ्राम्यन् विन्ध्य काननलुब्धकात् ।
लीनां विप्रकुले क्वापि श्रुत्वा सत्वरमभ्ययात् ॥ १९३ ॥
ततोऽपि मथुरां नीतामाकर्ण्य मथुरां ययौ ।
द्विजेन स्वतनूजायाः सखित्वे वर्ततामिति ॥ १९४ ॥
 
तत्र स्नातः सरस्तोये निहितस्तेयदर्शिनः ।
पुरुषाबर इत्येनं निन्युर्बद्धभुजद्वयम् ॥ १९५ ॥
 
6
 
४१