This page has not been fully proofread.

४०
 
अवन्तिसुन्दरीकथासारे
 
आर्यपुत्रेण तत्कायः प्रायः स्यादग्निसात्कृतः ।
अहमप्यत्र तापस्या नियमं ग्राहितानया ॥ १७१ ॥
इत्यस्मिन्नन्तरे तस्मिन् बन्धुमत्याः पिताययौ ।
कन्यावञ्चनया 'क्रुध्यद्गर्तेश्वरविवासितः ॥ १७२ ॥
ततः शौनकसाहाय्यात् प्रत्यापन्ननिजास्पदः ।
राज्यार्धं च ददौ तस्मै जामात्रे कोसलेश्वरः ॥ १७३ ।
 
हंसावलीवेदिमत्यौ प्रियासख्यौ च शौनकः ।
उपयम्य नहीं चैकां विजारात्ममा यया ॥ १७४ ॥
 
आयुषोऽन्ते स एवासावश्मकेषु द्विजोत्तमः ।
इन्द्राणीगुप्त इत्यासीद् यं प्राहुः शूद्रकं बुधाः ॥ १७५ ॥
 
अथावज्ञातया शप्तः प्राप्य ब्रह्मश्रिया निशि ।
राजाश्रयमपायानामन्ते गन्ता भवानिति ॥ १७६ ॥
 
स्वातिनाम्ना सहैवासौ ववृधे राजसूनुना ।
क्रीडाकलहमारभ्य स्वैरं वैरमभूत्तयोः ॥ १७७ ॥
 
बन्धुदत्तादिभिर्मित्रैरेकदा विहरन् वने ।
दुरुद्वहतरामन्यैरधारयदसौ शिलाम् ॥ १७८ ॥
 
शाक्यः संघिलको दृष्ट्वा बलं तस्यावधारयन् ।
तमेकाकिनमादाय प्रविवेश बिलान्तरम् ॥ १७९ ॥
 
रसोद्धरणकाले तु जिघांसन्तं निहत्य सः ।
दरीपतनदुःखादीननुभूय विनिर्ययौ ॥ १८० ॥
 
ततो विश्वलकं लब्ध्वा सुहृदं विन्ध्यगहरे ।
स्त्रिया कयापि तं रात्रौ भक्ष्यमाणमलक्षयत् ॥ १८१ ॥
 
क्रुद्धेन तु गृहीता सा मुक्तशापा दिवं ययौ ।
सौहृदयं निगृह्यान्तः प्रतस्थे पुनरप्यसौ ॥ १८२ ॥
 
1.
 
रु.ख.
 
2.
 
जा. क.