2023-02-26 04:07:57 by ambuda-bot
This page has not been fully proofread.
चतुर्थः परिच्छेदः
मणिभद्रस्य भद्रे ! मां विद्धि यक्षपतेः सुताम् ।
तारावलीति नाम्नाहं विचरामि वरैषिणी ॥ १५८ ॥
काशिपुर्यां पितृवने प्ररुदन्तमिमं शिशुम् ।
उपलभ्यालघुस्नेहादनैषं पितुरन्तिकम् ॥ १५९ ॥
मत्पिता धनदस्यायं दर्शितः स धनेश्वरः ।
परावराणां विज्ञाता मामाहूयेदमब्रवीत् ॥ १६० ॥
कीदृशस्ते शिशावस्मिन् मात्र इत्यहमब्रवम् ।
औरसे यादृगित्युक्ते तन्मूलं प्रभुरभ्यधात् ॥ १६१ ॥
पुरा शौनक इत्यासीत् कोसलेषु द्विजोत्तमः ।
सोमत्रातेन नामासावधीते स्म द्विजन्मना ॥ १६१ ॥
गुरौ सशिष्ये भुञ्जाने कदाचिन्नृपवेश्मनि ।
सुता बन्धुमतीत्येषा नियुक्ता परिवेषणे ॥ १६३ ॥
दृष्टयोः पुनरन्योन्यप्रेमवृत्तिरभूत्तयोः ।
कन्याशौनकयोस्तच्च संजग्मे मिथुनं मिथः ॥ १५४ ॥
ततो गर्तेश्वरः कन्यामुपयन्तुमुपायौ ।
तस्मै धात्रेयिकां कन्येत्युपनिन्ये सखीजनः ॥ १६५ ॥
शौनकः सह तन्वया निर्गतः सरयूजले ।
भिन्न नौर्नष्टपत्नी कस्ता मन्विष्य न दृष्टवान् ॥ १६६ ॥
शकुन्तलुप्तशेषं तु तीरे दृष्टा कळेबरम् ।
मृता सेति विलप्यासौ चक्रे तच्चाग्निसावपुः ॥ १६७ ॥
नीत्वा तत्कीकसं तीर्थान्बुद्वेगादाश्रमे क्वचित् ।
प्रायोपवेशमारेमे तापस्या कथयन् कथाम् ॥ १६८ ॥
श्रुखा बन्धुमती वार्ता निर्गत्य सहसा गृहात् ।
अहं ते दयितेत्यङ्ग्रौ निपत्येदमुवाच सा ॥ १६९ ॥
स्रोतसा नीयमानाहं कयाचिद् गोपकन्यया ।
उत्तारिता ततस्तीरे भुजङ्गस्ताममारयत् ॥ १७० ॥
३९