This page has not been fully proofread.

३८
 
अवन्तिसुन्दरीकथासारे
 
श्रुत्वैतद् गर्हमाणस्तमुत्तरेण व्रजन् वने ।
 
अद्राक्षं पुरुषं कञ्चित् क्षरत्क्षतजवक्षसम् ॥ १४६ ॥
 
स जगाद मया पृष्टः कुहचित् कूपसन्निधौ ।
 
1
 
कुमारं तं गृहं नेष्यन् रुरुणास्मि भृशं क्षतः ॥ १४७ ॥
 
विषाणपर्वलग्नेन कुमारेण ययौ मृगः ।
तमन्वेष्टुमशक्तोऽहं त्वयाप्यन्विष्यतामिति ॥ १४८
ततः श्रुत्वा गृहीतोऽसौ रुरुशृङ्गगतः शिशुः ।
सार्थनार्या किरातेभ्यः वस्त्रं दत्त्वेति सत्वरम् ॥ १४९ ॥
 
गत्वाथ स्त्रियमप्राक्षं वस्त्रक्रीतो ममार्भकः ।
सार्थमने रुदत्या मे पापैरपहृतः करात् ॥ १५० ॥
इत्याकर्ण्य निवृत्तोऽहं निराशः पुनरैक्षिषि ।
श्रोणी लग्नेन बालेन व्याकुलां शबरस्त्रियम् ॥ १५१ ॥
 
सा जगाद मम भ्रात्रा दत्तः सार्थहृतः सुतः ।
अन्यस्य दित्सतः पत्या मत्सपत्न्यै हठादसौ ॥ १५२ ॥
 
अमर्षादह
मत्रैनमानीय त्यक्तुमक्षमा ।
विषण्णास्मीति तच्छ्रुत्वा तमादायाहमभ्ययाम् ॥ १५३ ॥
वामदेवाश्रमं गत्वा तद्भिराहमिहागतः ।
सखित्वे युक्तमित्येनं कुमारस्याहरामि ते ॥ १५४ ॥
इति श्रुत्वा तमाश्लिष्य प्रमोदपरवान् नृपः ।
देवरक्षितनामानं देवरक्षित इत्यधात् ॥ १५५ ॥
 
(अर्थपालोत्पत्तिः )
 
अथान्येन कुमारेण पुष्णन्ती पार्श्वमात्मनः ।
 
भुक्त्वास्थानगतं प्रीत्या प्राह स्म महिषी नृपाम् ॥ १५६ ॥
 
अद्यापरा बिभ्राणामधिश्रोणि स्तनंधयम् ।
दिव्ययोषितमद्राक्षं पृष्टा चैवमवोचत ॥ १५७ ॥
 
1. किशोरं. क.